________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૨૫૦
परिशि ओ श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवलभः
पायाद्वः परमप्रभावभवनं श्रीवर्द्धमानः प्रभुः। उत्पत्तिस्थितिसंहृतिप्रकृतिवाग् यद्गीर्जगत्पावनी
स्वर्वापीव महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥२॥
आसीद्वासववृन्दवन्दितपदद्वन्द्वः पदं सम्पदा
तत्पट्टांबुधिचन्द्रमा गणधरः श्रीमान सुधर्माभिधः । यस्यौदार्ययुता प्रहृष्टसुमना अद्यापि विद्यावनी
धत्ते सन्ततिरुन्नतिं भगवतो वीरप्रभोर्गौरिव ॥३॥
बभुवुः क्रमतस्तत्र श्रीजगच्चन्द्रसूरयः। यैस्तपाबिरुदं लेभे बाणसिद्धयर्कवत्सरे (१२८५)॥४॥
क्रमेणास्मिन् गणे हेमविमलाः सूरयोऽभवन् ।
तत्पट्टे सूरयोऽभवन्नानन्दविमलाभिधाः ॥५॥ साध्वाचारविधिपथः शिथिलतः सम्यक्श्रियां धाम यै
रुद्दधे स्तनसिद्धिसायकसुधारोचिम्मिते (१५८२) वत्सरे । जीमृतैरिव यैर्जगत्पुनरिदं तापं हरद्भिभृशं
सश्रीकं विदधे गवां शुचितमैः स्तोमैरसोल्लासिभिः॥६॥ पद्माश्रयैरलमलं क्रियते स्म तेषां
प्रीणन्मनांसि जगतां कमलोदयेन । पट्टः प्रवाह इव निर्जरनिर्झरिण्याः
शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥७॥ तत्पट्टपूर्वपर्वतपयोजिनीप्राणवल्लभप्रतिमाः । श्रीहीरविजयसरिप्रभवः श्रीधाम शोभन्ते ॥८॥
For Private and Personal Use Only