________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२९४
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
"अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुः सहो मे । नववारिधरोदयादयोभिर्भवितव्यं च निरातपत्वरम्यैः” ॥ ८६ ॥ [वि० अं० ४. ग्लो-३.] अत्र चकारौ निपातावेवमाहतुः - गण्डस्योपरि स्फोटवद्वियोगश्च वर्षासमयश्च समुपनतमेतद् द्वयमलं प्राणहरणायेति । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् ।
"प्रस्निग्धाः कचिदिङदीफलमिदः सूच्यन्त एवोपलाः " ॥ ८७॥ [ शा० अं० १. लो - १३] निपातानां व्यञ्जकत्वमुदाहरति-अयमेकपदे तया वियोग इति । गन्धमादनपर्वते राज्ञा पुरूरवसा सह विहाराय भ्रमन्त्या उर्वश्याः, उदयवत्या विद्याधरदारिकाया उपरि राज्ञः स्नेहं दृष्ट्वा कुपितायास्ततः पृथग् भूत्वा स्त्रीजनपरिहरणीयं कुमारवनं गतायाः, लतारूपेण परिणामे सति तामन्विष्यन् तद्विरहकातरो राजा वर्षागमनं सम्भाव्येदमाह - " तया उर्वश्यां प्रियया सह, एकपदे अकस्मात्, अयं साक्षात्क्रियमाणः, वियोगः विरहः, मे मम, सुदुःसहः नितरामसह्यः, उपनतः समुपस्थितः, नवीनानां वारिधराणां - मेघानाम्, उदयात् उद्गमात् निरातपत्वेन - आतपाभावेन छाययेति यावत्, रम्यैः- रमणीयैः, अहोभिः दिवसैर्भवितव्यं चेत्यहो ! अनर्थपरम्पराभिमिपातः । अत्र निपातस्य कथं व्यञ्जकत्वमित्याह - अत्र चकारौ निपातावेवमाहतुरित्यादि गण्डस्य पिटकस्य मुखोपरिजायमानस्य स्फोटविशेषस्य, उपरि, अपरः स्फोटो यदि स्यात् तदा याशी दशा भवति तादृश्येवाद्य मम प्राप्ता यतो वियोगः [ प्रियाया विरहः ], वर्षासमय:" [ विरहिणामत्यन्तभयजनकः ] इति द्वावपि सममेवोपतताविति मम प्राणहरणायैवायं सन्निपातः, तस्योद्दीपनतरत्वं द्योतयितुमेव दिवसानां निरातपत्वरम्यैरिति विशेषणमपि दत्तम् । तथा च चकारद्वयेन विरहोपनमन तादृशदिवसभवनयो यौगपद्यं, मेघच्छा योपेत दिनानामुद्दी पनतरवं, तन्मलिनदिवसानां दुर्यापत्वं, विरहवेदनाया असह्यतोत्कर्षश्च सूच्यते, ततश्चात्र चकाररूपनिपातस्य व्यञ्जकता स्फुटैव ॥
"
निपातानां व्यञ्जकत्वप्रदर्शनप्रकरणे तदन्तर्गतोपसर्गाणां व्यञ्जकत्वमुदाहरति- प्रस्निग्धाः क्वचिदिङ्गदीति । अभिज्ञानशाकुन्तले मृगयार्थं परिभ्रमन् राजा दुष्यन्तः समन्तादवलोक्य सूत ! अकथितोऽपि ज्ञायत एव यदयमाश्रमा
For Private And Personal Use Only