________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या ० १ सू० २५ ।
अत्र जायातो ये भीरवस्तेषामेतत् स्नानस्थानमिति दूरापेतः संबन्ध इत्यनेन संबन्धेनैवेर्थ्यातिशयः प्रच्छन्नकामिन्याऽभिव्यक्तः । जायाभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम्, ये ह्यरसज्ञा धर्मपत्नीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोsवज्ञातिशयद्योतकः ।
2
पादे 'तुहाण संबन्धो बिभ ण होइ" इति पठ्यते, अत्र च 'त' इत्यस्य तेषामिति च्छाया कृता परिशिष्टे, परन्तु 'युष्माक' मिति युज्यतेऽर्थसम्बन्धाय, तथा च 'महं' इत्यस्येव 'त' इति निपातोऽत्र युष्माकमित्यर्थे इत्याकलनीयम्, तथैव च व्याख्यायते कश्चित् पाणिगृहीत्या भीरुः पूर्वकृतप्रणयः निरन्तरमसन्निधायनान्सीं प्रच्छन्नकामुकीमुपेतः, सा तमित्थं तर्जयति बालक ! प्रणयतारतम्यपरिच्छेदानभिज्ञ! अदक्षिण ! अन्यत्र व्रज यत्र सा ते जायाऽस्ति यद्भयात् त्वमियन्तं कालमन्तर्धाय समागतोऽसि तत्सविधे एव परत्र वा गच्छ, न तु मदन्तिके तिष्ठ, स्नान्तीं स्नानमाचरन्तीं मां, कस्मात् कुतः कारणात्, प्रलोकय से प्रीतिदायनुबन्धनं यथा स्यात् तथा पश्यसि । नन्वहमपि स्नानायव समागत इति चेत् ? अत्राह - भोः कातर्यास्कन्दित-प्रागल्भ्य!, जायाभीकाणां स्वधर्मपत्नी भयास्कन्दितचेतसां [ तेषां ] युष्माकं भवादशानाम्, एतत् स्नानस्थानं न भवति, जायाभीरूणां परकीयया सह विहारादियोग्यताभात् तेषामिह मादृशीनां स्नानस्थाने स्थानं नास्तीति भावः । अत्र व्यञ्जनं प्रदर्शयति - अत्र जायातो ये भीरवस्तेषामित्यादिना । स्नानस्थानमित्यतोऽग्रे वृत्तौ न' इति स्खलितम्, अर्थसम्बन्धानुसारं तदावश्यकत्वप्रतिपत्तेः । एतत् स्नान, स्थानमेव जायाभीरूणां नेत्यनेन स्वसम्बन्धो दूरमपसारितः, तथा च जायाभीकाणामिति सम्बन्धार्थक विभक्त्या प्रच्छन्नका मिम्या ईर्षातिशयः प्रकटितः, तथा तत्रत्तद्वित'क' प्रत्ययेनापि श्रवज्ञाप्रकर्षोऽथ च तत्सम्बन्धासम्भाव्यत्वं सूच्यते । जाया हि सन्ततिजननमात्रप्रयोजना भवति न तु तस्यां परकीया षत् । प्रणयः सम्भाव्यते, अतश्च ये धर्मपत्नीषु प्रेमपरतत्रास्ते न रसज्ञाः, अरसज्ञैश्व सह सम्बन्धमाचरन्नन्योऽपि कुत्सित एव स्यात्, यतश्च ते सर्वतोऽधिकं कुत्सिता इत्यनेन प्रकारेण कप्रत्ययस्यावज्ञातिशयद्योतकत्वं स्पष्टम् ॥
२९३
For Private And Personal Use Only