SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १६ । १७५ देव वारणादिति वाच्यम् , वटादिनामा प्रधानवृक्षो यत्र ग्रामे सग्रामोऽपि तन्नामा यथा 'वटो ग्रामः इत्यादि, तथा च वटादिनामकवटयोगिनि ग्रामे प्रतिपाये वटादिपदस्य संकेतितत्वेन तादृशार्थस्य संकेतविषयत्वसत्त्वादतिव्याप्तेः, साक्षात् पदे दत्ते च तत्र वटादियोगिनि ग्रामेऽव्यवहितसंकेताभावान दोषः, तत्र हि यः संकेतः स शब्दसंकेतव्यवहितः, व्यवहितत्वं च शब्दसंकेतग्रहप्रयोज्यग्रहविषयत्वम् , स चेत्थम्-वृक्षविशेषो वटपदाद बोद्धव्यः, तद्योगी ग्रामश्च तत्पदाद बोद्धव्य इति । न च वटयोगिनि ग्रामेऽपि वटपदशक्तिरेव, अन्यथा तदृक्षनाशे तत्प्रतीत्यमापत्तेरिति वाच्यम्, वटादियोगिनि ग्रामे वटपदप्रयोगस्य लक्षणयैवोपपत्तेः, तदृक्षनाशेऽपि साम्प्रतिकाभावे भूतपूर्वगतिरिति न्यायेन भूतपूर्वशब्दसम्बन्धेनापि तत्प्रतीत्युपपत्तेन शक्तिकल्पनेति भावः, यदि तु लाक्षणिके 'वटो ग्रामः' इत्यादिप्रयोगे 'वटादिपदात् तत्तल्लक्ष्यार्थो बोध्यः' इत्यादिस्वरूपः सङ्केत एव नास्ति, तेन तद्विशेषणतया साक्षात्पदोपादानस्य तत्रापतन्त्या अतिव्यालेनिरासायावश्यकता नास्ति, संकेतविषयत्वस्यैवाभावेन तद्वारणादित्युच्यते, तदा यत्र पूर्वोक्तसंसर्गाद्यन्यतमेन प्रकरणेनाभिधायां नियन्त्रितायां शब्दान्तरध्वननं, यथा "भद्रात्मनो दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसङ्ग्रहस्य । यस्यानुपप्लवगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥" इत्यादौ-राज्ञो वाच्यतायां हस्तिनः प्रतीयमानतायां च, तत्र द्वितीयस्य हस्तिविषयकार्थस्य मुख्यत्वं माऽभूदिति संकेतविषय इति पदस्य विशेषणं साक्षादिति, 'भद्रात्मनः' इत्यत्र तु राजपक्षीयार्थप्रतीतिव्यवधानेनैव हस्तिपक्षीयार्थप्रतीतिरिति नातिप्रसङ्गः । श्लोकार्थश्च-यस्य-प्रकृतस्य राज्ञः, कर:-पाणिः, सततं-निरन्तरं, दानस्य-वितरणस्य, सम्बन्धि यदम्बु-जलं, तस्य सेकेन-सेचनेन, सुभगः-सुन्दरः, अभूत् , कीदृशस्य राज्ञः ? भद्रः-शोभनः, आत्मा-स्वरूपमन्तःकरणं यस्य तथाभूतस्य; तथा दुरारोहा- परैरनभिभवनीया, तनुः-शरीरं यस्य, तथा विशालेमहति, वंशे-कुले, उन्नतिः-आधिक्यं महत्त्वं ख्यातिर्वा यस्य तथाविधस्य, विशालस्य वंशस्योन्नतिर्यस्मादिति वा; तथा कृतः शिलीमुखाना-बाणानां, संग्रहःअभ्यासदाढ्य येन तस्य; तथा-अनुपप्लुता-अबाधिता, गतिः-ज्ञानं यस्य तादृशस्य, अनुपप्लुतानाम् -अदुष्टानां, गतिः-हितकतो, तस्येति वा; तथा परान्-शत्रून्, वारयतीति तथाभूतस्तस्येति राजपक्षे । अप्राकरणिकगजपक्षे तु-यस्य परस्योत्कृष्टस्य For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy