________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
सालङ्कारचूडामणौ काव्यानुशासने
मुख्यमर्थ लक्षयति
साक्षात्संकेतविषयो मुख्यः ॥ १६ ॥ अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताद्यवयवेभ्योवाच्यम्, शक्यान्वयत्वस्य नियामकत्वात् । अयमत्र संग्रहः-घटं करोतीत्यत्र घटवृत्तिकर्मत्वानुकूलाकृतिरित्यर्थों बोध्यते, तत्र घटशब्दस्य घटोऽर्थः, कर्मत्वमम्प्रत्ययार्थः, वृत्तित्वं तु न कस्यापीत्यपदार्थोऽपि वृत्तित्वरूपोऽर्थोऽनयोः संसर्गविधया तात्पर्यवशाद् भासत इत्यभिहितानां स्वस्ववृत्त्या पदैरुपस्थापितानामर्थानामन्वयः परस्परं सम्बन्धः' इति वादिना भाट्टमीमांसकानां मतम् । तथा च तात्पर्यार्थः पञ्चम इति तदकथनं न्यूनतेति चेत् ? न-यद्यप्यन्वयं प्रति प्रतिपत्तिनिमित्तं तात्पयार्थशक्तिरप्यस्ति, तद्विषयस्तात्पर्यरूपोऽर्थोऽपि, तथापि तौ वाक्यविषयावेवेति न्यूनताया अनुत्प्रेक्ष्यत्वात् , शब्दस्वरूपे प्रतिपिपादयिषिते वाक्यविषयानुक्तेरदोषत्वादिति काव्य-प्रकाशादिकृद्भिस्वैविध्यमेव शब्दार्थयोरुक्तम्
'स्याद् वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्विधा,। [का. प्र. उ. २, सू. ५] 'वाच्यादयस्तदर्थाः स्युः, इति च [का० प्र० ३, २, सू० ६ ] सूत्राभ्याम् । गौणार्थश्च तैलक्षणायामेवान्तर्भावितस्तस्या गौणीशुद्धाभेदेन द्वैविध्यकरणात् । एवं च प्रतिपादनप्रकार एव वैचित्र्यं न तु वास्तविको मेद इत्यवसेयम् ॥ १५॥ __ शब्दचातुर्विध्यमर्थचातुर्विध्यमूलकमिति पूर्वसूत्रे प्रतिपाद्यार्थस्य चातुर्विध्यं कथमिति जिज्ञासायां क्रमेण तल्लक्षणानि प्रतिपादयितुं प्रवृत्तानि सूत्राणि व्याख्यातुं मुख्यार्थलक्षणसूत्रभूमिकामाह-मुख्यमर्थ लक्षयतीति । सूत्रस्थसाक्षात्पदस्थार्थमाह-अव्यवधानेनेति । यत्र यस्मिन्नर्थे, संकेतः 'अस्माच्छब्दादयमों बोद्धव्यः' इत्येवं व्यवहाररूपः, क्रियते पूर्व सर्वज्ञेन तत्परम्परया चास्मदादिभिर्व्यवह्रियते, स तादृशसंकेतविषयोऽर्थः, मुखमिव हस्ताद्यवयवेभ्य इतिअयमर्थः शब्दप्रयोगे जाते योऽर्थोऽर्थान्तरेभ्यो लक्ष्यादिभ्यः प्राथम्येन प्रतीयते स मुखमिव प्रधानत्वान्मुख्यः, यथा मुखं शरीरान्यावयवापेक्षया प्रथमं प्रतीयते, भङ्गान्तरोपजीव्यत्वेन प्राधान्यं च भजते, तथाऽस्याप्यर्थस्य प्राधान्यात्, अर्थान्तरोपजीव्यवाच्च मुख्यत्वम् , मुखशब्दादिवाथै यः प्रत्ययः । ननु लक्षणे संकेतस्य साक्षादिति विशेषणमधिकम् , तेन विनाऽपि लक्ष्यार्थादीनां संकेतविषयत्वाभावा
For Private And Personal Use Only