SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६८ : सालङ्कारचूडामणौ काव्यानुशासने अत्र नयनद्वारमित्येतावदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम् । निर्वाहेऽप्यङ्गत्वं यथा"श्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान्, गण्डच्छायां शशिनि शिखिना बहभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान, हन्तैकस्थं क्वचिदपि न ते भीरु ! सादृश्यमस्ति ॥ ११॥" [मे० दू० उ० श्लो० ४१] भासस्य वासवदत्तानाटके राज्ञ उक्तिः । अन्याऽपि चुराशीला केनापि साधनेन द्वारमपावृतं कृत्वा गृहं प्रविश्य तदन्तरवस्थितं द्रव्याद्यपहरति, तद्वदियमपि मानसचौर्यशीला रूपविपाटितपक्ष्मकपाटेन नेत्रद्वारेण देहरूपं गृहमाविश्य हृदयं चौर्यवृत्याऽपहृतवतीति, चौर्येणापहृतस्य वस्तुनो यथा न पुनः प्राप्तिसम्भावना तथा मम चेतसोऽपि न पुनः प्राप्तिः सम्भाव्यत इति तदीयाभिप्रायः । किमत्र युक्तमित्याह-अत्र नयनद्वारमित्येतावदेवेति। नयनस्य द्वारत्वनिरूपणमानार्थ रूपकाश्रयणमिह शृङ्गारानुकूलं तदतिरिक्तं 'स्वरूपताडेन' 'देहगृहम्' इत्यादि रूपकनिबन्धनं नावश्यकं न वा प्रकृतरसानुकूलं, केवलं रूपणप्रयासव्यग्रकविप्रवृत्तेरनुमापकतया रससन्दर्भणप्रयासशैथिल्यमनुमापयति; अतश्चैवं न निबन्धनीयमिति भावः ॥ . अथ पञ्चमं प्रकारमत्यन्तनिर्वाहेऽपि रसोपकारकत्वं निरूपयितुं तदवतरणमाह-निर्वाहेऽप्यङ्गत्वं यथेति-अलङ्कारस्याद्यन्तं निर्वाहेऽपि रसानुकूल्यस्येदमुदाहरणम्-श्यामाखङ्गमित्यादीति तदर्थः । श्यामासु प्रियङ्गुलतासु, "श्यामा तु महिलाह्वया । लता गोवन्दिनी गुन्द्रा प्रियङ्गुः फलिनी फली" इत्यमरः, अङ्गं शरीरम् , उत्पश्यामि तत्र पाण्डिन्नः कण्टकितत्वस्य सत्त्वात् सौकुमार्यादिसाम्याञ्च धैर्याय वाऽङ्गत्वेन तर्कयामीत्यर्थः, तथा चकितानां-सम्भ्रा. न्तानां, हरिणीनां प्रेक्षणे चिलोकने, ते दृष्टिपातान् दृष्टिव्यापारम् , उत्पश्यामि, शशिनि चन्द्रे, वक्त्रस्य-मुखस्य, छायां-कान्तिम् , तथा शिखिनां बर्हिणां, बहभारेषु पिच्छसमूहेषु, केशान् , प्रतनुषु स्वल्पासु, नदीनां वीचिषु, भ्रूसाम्यनिर्वाहाय नदीनां प्रवाहाधिक्यगुणस्याप्यकथनं न दोषोऽपि त्वनुकूलत्वमेव, तथोक्तं रसरत्नाकरे. For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy