________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या०
, सू० १४ ।
अत्र रूपकमारब्धमनिर्व्यूढं च रसोपकाराय ।
न त्वेवं यथा
"स्वञ्चितपमकपाटं नयनद्वारं स्वरूपताडेन । उद्घाट्य में प्रविष्टा देहगृहं सा हृदयचोरी ॥ १० ॥"
भासस्य
ww
१६७
येत्यर्थः, दुश्चेष्टितं प्रेयसो दुर्व्यवहारं संसूच्य दन्तक्षत - करजाघातादिचिह्नविशेषप्रकाशनेनाङ्गुलिनिर्देशादिपूर्वकं प्रख्याप्य, धन्यः सौभाग्यशाली, हसन् हासेन स्वापराधापलापपरायणः, प्रेयान् प्रियतमः, हन्यत एव ताड्यत एव, न तु तदीयसख्यादिकृतमनुनयं मनागपि हृदये कृत्वा तादृशापराधाद् विरमतीत्येवकारेण सूच्यते हन्यत एव न तु हननस्य किमपि फलं भवति, अथवा कतिवारमयमेवमाहत इत्यस्यायं स्वभाव एव जात इति वा । अत्र बाहुलतिकापाशेनेत्यनेन बन्धनकारणे कोमलप्रतीतिपूर्वकं स्वीयसौन्दर्यप्रकटनं तत्स्पर्शकृततत्सौख्यस्मारणं च व्यङ्ग्यम्, वासनिकेतननयनेन च तत्र पूर्वकृतनानाविधस्वकीयसुरतचातुर्यस्मारणम्, तेन च नायिकान्तरापेक्षया स्वस्यावैलक्षण्यमप्युद्धोवितं भवति ॥ अत्र ' नात्यन्तं निर्वहणं' कथमिति संगमयति-अत्र रूपकमारधमनिर्व्यूढं च रसोपकारायेति । इह प्रकृतविप्रलम्भप्रतिकूल रौद्ररसाङ्गानां कोप बन्धनाङ्गानां विप्रलम्भानुकूल्याय बाहुलतिकायाः पाशत्वेन रूपणमारभ्य यदि साङ्गताविधानपूर्व समाप्तिं नीयेत, तर्हि दयिता व्याधवधूवेन वासगृहं च कारागारत्वेन निरूपणीयं स्यादिति तद्वसस्य भङ्ग एव स्यान्न परिपोष इत्यारब्धमेव तत् त्यक्तमिति युक्तं कृतमिति भावः ॥
For Private And Personal Use Only
एवं रसोपकारमनपेक्ष्य निर्वहणं न युक्तमित्याह-न त्वेवं यथेति-यथोदाह्रियमाणे पद्येऽत्यन्तं निर्वाहः कृतस्तथा न करणीयमिति भावः । केत्याह'स्वञ्चितपक्ष्म कपाटमिति स्वचितं सुशोभितं सुघटितं, पक्ष्मैव-लोमैव, कपाटं - काष्ठपट्टस्थानीयं विधानसाधनं यस्य तादर्श, नयनद्वारं देहगृहद्वारभूतं नयनम् . नयनमेव द्वारमिति विग्रहः, नयनरूपं प्रवेशमार्गमिति भावः, स्वं रूपमेव ताड - कपाटताडनसाधनं तेन अथवा ताडनं-ताडः, स्वरूपेण ताड: - स्वरूपताडस्तेन, उद्घाट्य विपाटितदलद्वयं विधाय, सा बुद्धिस्था निरुपमलावण्यवती, हृदयचौरी मानसापहारिणी, मे देहगृहं शरीरान्तः, देह एव गृहम् प्रविष्टा,