SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १४। १५१ तत्र रसोपकारप्रकारानाहतत्परत्वे काले ग्रह-त्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसोपकारिणः ॥१४॥ सरोरुहवने-कमलवने, [सरोरुहेत्यनेकदेशवासेन सहवासित्वं सूचितम् , बद्धानने-मुद्रिते मौनिनि च सति, ताम्यति-शोकात् तप्यमाने सति, [एतेन सहवासिनां प्रतिकाराभावः सूचितः] भ्रमरेषु-भृङ्गेषु, भ्रमं रान्तीति व्युत्पत्त्या पान्थेषु च, क्रन्दत्सु-शब्दायमानेषु रुदत्सु च सत्सु, [अनेन क्रन्दजनान्तरदर्शनेन दुःखातिरेकः सूक्तिः ] पुरः-अग्रे, कान्तया-दयितया [सारस्था]भासनं-युक्तं, सारसं-पक्षिविशेष रसिकं च वीक्ष्य-अवलोक्य, [अनेन नायिकासक्तनायकान्तरदर्शनेन विप्रलम्भोद्दीपनम् ], वियोगिना-चक्रवाकीविच्छेदवता [सन्ध्याकालिकचन्द्रोदयेन चक्रवाकमिथुनविच्छेदस्य कविसमयप्रसिद्धत्वात् ] चक्राह्वेन-चक्रवाकपक्षिणा, बिसलता-मृणालवल्ली, नास्वादिता-न भुक्ता, नोज्झिता-न च त्यक्ता, [किन्तु ] केवलं निर्गच्छतः-निर्गन्तुमिच्छतः, जीवस्यजीवनस्य, अर्गलेव-द्वाररोधककाष्ठमिव, कण्ठे-गले, निहिता-स्थापिता ॥ __ अत्रोपमाऽर्थालङ्कारः, न चासौ प्रकृतस्य शृङ्गारस्योपकारिका, विप्रलम्भे हि जीवनिर्गमोऽपि वर्ण्यते तदुत्कर्षाधायकत्वात् , इति तन्निरोधहेतूपपादनमनुचितं, प्रत्युत स्नेहाभावे पर्यवस्यति । केचिदत्रोपमायामावश्यकस्य बिसलतायां कविविवक्षितस्य जीवनिर्गमप्रतिबन्धकत्वरूपस्य, सादृश्यस्याभावात् , सा नेत्यत्रोप्रेक्षालङ्कार इत्याहुः, तस्याः संभावितसादृश्येनापि प्रवृत्तेः, सादृश्योत्प्रेक्षाया अपि उपमोक्तन्यायेन प्रकृतरसापकर्षकत्वस्य सत्त्वमिति च कथयन्ति । एतावता प्रदर्शितेन प्रबन्धेनालङ्कारस्यानिश्चितोत्कर्षकापकर्षकत्वेन स्पष्टो गुणाद् भिन्नः स्वभाव इति स्पष्टम् ॥ १३॥ पूर्व सूत्रेऽलङ्काराणामङ्गाश्रितत्ववर्णनपूर्वकं तेषां क्वचिद् रसोपकारकत्वं क्वचिदनुपकारकत्वं, रसाभावे च वाच्यवाचकवैचित्र्यमात्रकारकत्वमित्युपपादितं, तत्र क्रमशस्त्रयमपि प्रदर्शयितुं प्रथमं रसोपकारकत्वं वर्णयितुं प्रवृत्तं सूत्रमवतारयति-तत्र रसोपकारप्रकारानाहेति-कथमुपनिबद्धा अलङ्कारा रसमुपकुर्वन्तीति तस्य प्रकारान्-भेदान् , आह-व्याचष्टेऽनेन सूत्रेणेति भावः । तत्परत्वे स-प्रधानीभूतो ध्वनिगम्यो रसः, परः-पोषयितुमिष्टो येषां ते For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy