SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५० Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने नरूपवरान्तरानुसरणात् ], न चाम्बा - माताऽपि न प्रभवति, तयाऽपि तदप्रतिषेधनात् ; भवत्यपि न प्रभवति पित्रोः सम्मते सख्याः प्रतिषेधकत्वासंभवात्, इति । अत्र मालोपमालङ्कारो विसर्पणादेरतिशयप्राप्तिसूचनपूर्वकं विप्रलम्भशृङ्गारमतितरां पुष्णाति । क्वचित् सतोऽपि शब्दालङ्कारस्य रसानुपकारकत्वम्, यथा- "चित्ते विहृदि टुट्टदिसा गुणेसुं सेज्जासु लोहृदि विसहृदि दिम्मुहे । बोलम्मि वट्टदि पट्टदि कव्वबंधे झाणेण हृदि चिरं तरुणी तरट्टी ||” [ कर्पूरमञ्जरीसके द्वितीय जवनिकान्तरे ] [ चित्ते विघटते त्रुट्यति सा गुणेषु, शय्यासु लुठति विसर्पति दिखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे, ध्यानेन त्रुव्यति चिरं तरुणी प्रगल्भा ] इति च्छाया, अर्थः--- दर्शनक्षणात् प्रभृति कुरङ्गाक्षी [ दंसणकरणादो पहुदि कुरंगच्छी ] इत्युपक्रम्य सा प्रगल्भा तरुणी चित्ते विघटते- विशेषेण घटिता- दृढतरं सम्बद्धा भवति । गुणेषु न व्यति न हीयते; शय्यासु लुठति - मुहुर्मुहुः पार्श्वपरिवर्तनं करोति, न तु स्वपिति; दिनुखेषु विसर्पति- सर्वतः संचरतीति भावः; वचने वर्तते अविरतं प्रलपतीति भावः; काव्यबन्धे प्रवर्तते - प्रवृत्ता भवति, चिरं - चिरकालं ध्यानेन - चिन्तया, त्रुट्यति कृशा भवति ॥ अन्न ट वर्गानुप्रासः शब्दालङ्कारः, स च शब्दमात्र मलङ्करोति, न तु सन्तमपि विप्रलम्भशृङ्गारं रसं टवर्गानुप्रासस्य तत्प्रतिकूलत्वात् । > एवमर्थालङ्कारस्यानुपकारकत्वं यथा— "मित्रे कापि गते सरोरुहवने बद्धानने ताम्यति, क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् । चाह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता, कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥" [ प्रकीर्णकम् ] अर्थः — सन्ध्याकालिकचक्रवाकचेष्टावर्णनमिदं - मित्रे - सूर्ये, सुहृदि च, क्वापि अज्ञातरूपे देशविशेषे गते सति [ एतेन मित्रस्य प्रतिकर्तुरभावः सूचितः ] For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy