________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधषिवृतौ अध्या० १, सू०१०।
१०१
प्रान्तभागे, पीने-मांसले, प्रियस्य-दयितस्य, असे-स्कन्धे, लुलित:-विकीर्णः, सुकेश्याः-सुन्दरकेशयुक्ताया महिलायाः, धनः-निविडः, केशपाश इव-कचसमूहवद् , विभातीति शेषः । अन्न नीलवर्णेन जलेन स्वभावतः कृष्णवर्णानां सुकेशीकचानां सादृश्योक्तरुभयोर्वर्णयोरक्यं स्पष्टमेव प्रतीयत इति । यद्यपि "कृष्णे नीला-ऽसित-श्याम-काल-श्यामल-मेचकाः" [ अमर० १-५-१४ ] इत्यादिकोषानुसारं स्वभावत एव नील-कृष्णयोरैक्यं लभ्यत इति न तत्र कविसमयकृतो विशेष इति प्रतिभाति, तथापि "नील्या भन् वक्तव्य" इति कात्यायनवार्तिकवशनिष्पक्षस्य नीलशब्दस्य लोके हरितमिश्रितश्यामवर्णविशेषाभिधायिता दृश्यत इति कविसमयस्य तद्धिमत्वेन तत्कथनं पार्थक्येनावश्यकमिति न काचि, दनुपपत्तिरिति ॥ कृष्ण-हरितयोरैक्यं यथा"मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं पुनातु वो हरि-हरयोरिव संगतं वपुः ॥"
[ का० मी० अ०-१५] अर्थ:-मरकतसदृशं-हरितवर्ण, यामुनम् , स्फटिकशिलाविमलं-स्फटिकवत् स्वच्छम् , जाह्नव्या इर्द-जाह्नवं गाङ्गम् , [कृष्ण-श्वेतवर्णयोः ] हरिहरयोः, संगत-संमीलितमेकत्र स्थित वा, वपुरिव, तदुभयम्-एतद्यमप्युदकं, वः पुनातु । अत्र यमुनाया जलं कृष्णवर्णतया ख्यातं कृष्णवर्णहरिशरीरेणोपमितं च हरितवर्णमरकतमणिसदृशस्षेनोक्तमिति कृष्ण हरितयोरैक्यं स्वीकृतमेव ॥
एवं कृष्ण-श्यामयोर्षस्तुतोऽभिन्नयोरपि लौकिकव्यवहारे प्राप्तसूक्ष्मभेदयोरैक्यं यथा
"एतत् सुंदरि ! नन्दनं शशिमणिनिग्धालवालदुम, मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिलामुहामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥"
... [फा० मी० म०-१५]
For Private And Personal Use Only