SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने । __ अथवा नियमः समयः कवीनाम् , यथा कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोः, चन्द्रे शशमृगयोः, कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादिस्यानां, नारायणमाधवविष्णुदामोदरकर्मादेः, कमलासंपदोः, नागसर्पयोः, क्षीरक्षारसमुद्रयोः, सागरमहासमुद्रयोः, दैत्यदानवासुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णोपवर्णनम्, अर्थः-कलापिन:-मयूराः, जीमूतमालिनि-मेघमालायुक्त, काले-वर्षासु बर्हाणि मण्डलीकृत्य-पिच्छानि चक्राकारतया निर्माय, मधुरा गीतिः-गायनं येषु तैः, कण्ठैरुपलक्षिताः सन्तः प्रनृत्यन्ति । अत्र जीमूतमाली कालो वर्षाकाल एवेति तत्रैव तेषां रुत-नृत्ये इति कविराह ॥ __ एवं जात्यादीनां नियममुक्त्वा नियमशब्दमन्यथाऽपि व्याख्याति-अथवा नियमः समयः कवीनामिति । कवीनां समयः-सिद्धान्त आचारः, काचिद् विशिष्टा व्यावहारिकपरम्पराऽत्र नियमशब्देनोच्यत इति, स च यद्यपि बहुविषयः, तत्र कश्चित् पूर्वमप्यसनिबन्धन-सदनिबन्धनाविरूप उक्त एव, सम्प्रति तद्विशेष एव कश्चिदुदाह्रियते-यथेत्यादिना । अत्र 'कृष्णनीलयोः' इत्यादिपश्यन्तपदानामन्ते निर्दिष्टेन 'ऐक्यम्' इति पदेनान्वयः, तथा च नील-कृष्णयोवस्तुतो लोके भेदेऽपि कविभिरभिन्नत्वेनाचारादैक्यम् , यथा "नदी तूर्ण कर्णोऽप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः, समुत्तीर्णो वर्णामुभयतटचलाबद्धवानीरहाराम् । तटे सह्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः, प्रियस्यांसे पीने लुलित इव धनः केशपाशः सुकेश्याः ॥" [का० मी० अ०-१५ ] अर्थः--कर्णोऽपि-कश्चिदेतझामकराजापि, दाक्षिणात्याङ्गनाभिः-दक्षिणदिग्भवाभिः कामिनीभिः, अनुसृतपुलिनाम्-आश्रिततटप्रदेशाम्, उभयतटयोःउभयोः कुलयोः, चल:-चञ्चलः, आबद्धः-श्रेणीबद्धः, वानीरहारः-वेतसलतामाला यस्यास्ताम् , वर्णाम्-एतनामिका नदीम् , तूर्ण-झटिति, समुत्तीर्णः-पारितवान् । पुनर्नदीमेव विशिनष्टि-यस्याः-वर्णायाः, सः-प्रसिद्धः, नीला-नीलवर्णः, स्वसलिलनिवहः-स्वप्रसूतजलसमूहः, सह्यस्य-तन्नामकपर्वतस्य, उच्चैस्तटे-उन्नते For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy