________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
पदांनादतीति पूर्वरूपं व्यूहेत् । अयासा मनसा कृतोऽयासं हष्यमूहिषेज्या नो धेहि भेषजं । इंद्र वाजेषु नोऽव इंद्रं सखायोऽनु सं रभवमिति च । सवर्णदीर्घ व्यूहत् । वदन ब्रह्मावदतो वनीयान अद्याद्या श्वः श्व इति च । साहुणं व्यूहेदित्पाघेकाहारीभावस्योदाहरणं ॥
७. तुशब्दोऽवधारणे। चतुर्दशसु च्छंदःखाद्ये तु सप्तवर्गे गायत्र्यादिजगत्यंत एव पादविशेषात्संज्ञाविशेषा भवंति नोतरसप्तकप्रतिजगत्याद्यतिधृत्यंते । आधे सप्तके पादविशेषासंज्ञायुक्ता ऋच इति पुनर्वेदनीयमित्याह ॥
.. तान्पादकृतसंज्ञाविशेषानेवानुक्रामंतोऽग्निं नव मधुच्छंदा वैश्वामित्रो' वायो वायव्यमित्यादि प्रतिसूक्तमृष्यादि परिपाटी वदंत उदाहरिष्यामः । न पुनः सामान्यगायत्र्यादिशब्दान् ॥ __e. त्रिष्टुभश्चतुश्चत्वारिंशदधरत्वे प्राप्ने सति बहुभिरक्षरैरूना होना अपि विरापा विराट्स्थानाश्च त्रिष्टुबधिकारोक्तास्त्रिष्टुभ एव स्युः । नवको वैराजस्त्रैष्टुभश्च द्वौ वा वैराजौ नवकस्त्रैष्टुभश्च विराट्स्थानकादशिनस्त्रयोऽष्टकश्च विराड्रपति1 चैकोनचत्वारिंशचत्वारिंशदेकचत्वारिंशदिति पंचभिश्चतुर्भिस्त्रिभिरक्षरैरूना अप्पधिकारात्रिष्टुभ एवेत्यर्थः । किमर्थमिदमुच्यते । असत्यस्मिन्योगे ोकोनचावारिंशतो निचत्यंक्तित्वं चत्वारिंशतः पंक्तिवम एकचत्वारिंशतो भरिक्पंक्तित्वं च स्यात । इत्युद्देशः । इतिशब्दः प्रकारे । उद्देशः संक्षेपः । पूर्वोक्तप्रकारो बहूनेषु तत्तदधिकारानदात्मकः सः छंदःसु गायत्र्यादिष्वभिमत इत्यर्थः । तेन त्रयः सप्तकाः पादनिदित्येकविंशत्यक्षरापि गायत्र्येव 12 मध्यमः षदश्चेदतिनिर्देिति च विंशत्यक्षरापि गायत्र्येवेत्यादि सिद्धं भवति । न वा एकेनाक्षरेण च्छंदांसि वियंति न द्वाभ्यामिति । न होकरमादक्षराबाधयंतीति च। तत्र वियंतीत्यन्यत्वं गच्छंतीत्यर्थः। बाधयंतीति नश्यतीत्यर्थः । बोकयोरुपलक्षणवादहूनेष्वपि भवति । तत्राद्यसप्लके गायत्र्यादिजगत्यंते वक्ष्यमाणे वेदितव्यं । अस्य चानंतरसूत्रे प्रयोजनाभावादनादेशेऽष्टाक्षरा इत्यादि पूर्वसप्तक एव नोतरसप्तक इति वक्तुं तत्रोपयोगः । तेनातिजगत्याद्यतिधृत्यंते यथाध्ययनं पादाक्षारसंख्याष्यवस्थेति सिद्धं । व्यवहारलाधवाय संज्ञां करोति ॥
१०. पादानामिति शेषः । अक्षरशब्दस्य प्रत्येकं संबंधः । दशाक्षरस्य पादस्य संज्ञा वैराज इति । एकादशाक्षरस्य पादस्य त्रैष्टुभ इति । द्वादशाक्षरस्य पादस्य जागत इति वैराजादिप्रदेशाः । नवको वैराजस्त्रैष्टुभश्च त्रिजागतोलबृहतीत्येवमादयः । सूत्र्यते पिंगलेनापि ह्ययमों महात्मना। विराजो दिशः। त्रिष्टुभो रुद्राः। जगत्या आदित्या इति । दशाक्षरा विराट् । एकादशाक्षरा त्रिष्टुप् । द्वादशाक्षरा जगतीति 20 श्रुतिरपि पादाभिप्रायेणैव ॥
1 Pan.VI, i, 100. 2Cp. Asv. Sr.-sutra, I, xi, 13. Rigv. 1, 7,4. 4x, 103,6. Pan.VI, i, 102. 6x, II7, 7 VIII, 61, 17. WI, I43; न पुनश्चोदनीयमित्याह I2, PI, P2. Satras on I, I and 2. 10 WI, I43; परिपाद्यां वदंत I 2, PI, P2. 1159, 5-6; cp. Rigv. Pr. 926 and 928. 12 Ibid. 880. 1354, 5. 14 Rigv. Pr. 881. 15 Ait. Brāhm. I, 6. 16 See sutra II. 1759,5. 1867,6. 19 Pingala, Khandah-satra, III, 4-6. 20 Ait. Br. I, 5.
For Private And Personal Use Only