________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ षड्गुरुशिष्यकृता वेदार्थदीपिका सानुक्रमणीवृभिः ॥ १,१. अथेति मंगले प्रस्तावे वा । ऋगंशवाहुल्यादृग्वेदः । तत्राखाये सम्यगभ्यासयुक्त खिलरहिते शाकलके । शाकल्पोच्चारणं शाकलकं । तत्रादिः प्रतीकं । अक्संख्या ऋचामेकत्वादिः । ऋषिर्द्रष्टा । ऋपयोऽनागतातीतवर्तमानार्थवेदिनः । अतः सनोतेश्च ऋषिशब्दो निरुच्यते । दानादिसर्वकल्याणगुणयोगी पचाद्यज देवः । देवानलंतात स्वार्थे अण् दैवतं। छंदः पापेभ्यश्छादनात् । छादयंतीह वा एनं छंदांसि पापाकर्मण इति श्रुतेः । षष्ठीसमासगों द्वंद्वसमासः । सूक्तानां हि प्रतीकादि । अत्र त्यक: । आनुपूा प्रतिपाद्यानुक्रमिष्यामः । ननु च । एको हि शौनकाचार्यशिष्यो भगवान कात्यायनः । कथं बहुवचनं ॥ उच्यते। व्याख्येयार्थबहुत्वेन बहुमानेन चात्मनः ।
व्याख्यात्रीमन्ययारोप्प बहुत्वं तु प्रयुज्यते ॥ यथा हि निधिमासाद्य प्रयुगानस्तु दृश्यते।
रते वयं समृद्धार्थी देवोऽस्मासु प्रसीदति ॥ इत्येतेन सर्वबहुवचननिर्देशः प्रतिपादितः । यथोपदेशं । शौनकोपदेशानुक्रमणीदशकावलायनोपदेशसूत्रगृह्यचतुर्यारण्यकानतिक्रमण" । अथ सर्वानुक्रमण्यारंभसंबंधेऽज्ञानदोपसंकीर्तनेन तदारंभ समर्थयते ॥
२. अग्निहोत्रादि विश्वसृजामयनांतं श्रुतिविहित कल्पसूत्रे व्याख्यातं कर्म श्रोतं । निषेकादि श्माशानांतं स्मृतिगृह्मविहितं स्मार्त सदाचारादि कर्म । प्रशब्द आदिकर्मणि । प्रसिद्धिः फलप्रदानं । एतज्ज्ञानमिति छांदसं व्याययाच्छंदोवद्भावाच्छंद एव वा। एतस्माज्ञानादूत इति यावत् । प्रकृतत्वात सर्वानुक्रमणीगतं ज्ञानं । अस्मान्जानादूते श्रौतस्मातकर्मणोः फलप्रदानसंभवाय वादोऽपि नास्ति । ऋष्याद्यज्ञानेन मंत्रकंटकत्वाद्यागकंटकावाञ्चानधिकृतत्वात सर्वत्रैव । तथा हि स्मयते ॥
अविदित्व ऋषिं छंदो दैवतं योगमेव च।। योऽध्यापयेज्जपेद्वापि पापीयानायते तु सः॥
1 Cp. Nirukta, II, II, where it is derived from दृश. Cp. Nirukta,VII, 12; Ind. Stud. VIII, pp. 3-8. 3 Cp. Sayana, M. M., Rigy. vol. i, p. 44, line 5; Sat.
Br.VIII, I, IB Khandogya Up. I, 4, 2. Pan. VI, i, 128; W1; तत्र त्रिरित्युक्तः the other MSS.; in all the MSS. the words come between अनुक्रमिष्यामः and ननु च ।
व्याख्याम WI; व्याख्याता the others. WI; प्रयुंजते the others. WI; शौनकोपदेशानतिक्रमेण only in the other MSS.; ep. M. M., A.S. L., p. 234. 8 प्रदानांतत्व WI.
MSS.; also Sayana, who quotes this and the next two slokas, pp. 43, 44; cp. also Burnell, Arsheya Br., p. 4; 1979HEITHA1 W 1 only.
[III. 4.]
For Private And Personal Use Only