________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ छंदःसंख्या ॥
एकपंचाशदृग्वेदे गाययः शाकलेयके । सहसद्वितयं चैव' चत्वार्येव शतानि तु ॥१॥ चीणि शतानि सैकानि चत्वारिंशतथोष्णिहः । अनुष्टुभां शतान्यष्टौ पंचाशत्पंचसंयुता ॥२॥ बृहतीनां शतं ज्ञेयमेकाशीत्यधिकं बुधैः । शतानि त्रीणि पंक्तीनां द्वादशाभ्यधिकानि तु ॥३॥ पंचाशत्रिष्टुभः प्रोक्तास्तिसश्चैव ततोऽधिकाः। सहस्राण्येव चत्वारि विज्ञेयं तु शतद्वयं ॥४॥ चत्वारिंशतथाष्टौ च तथा चापि शतत्रयं। जगतीनामियं संख्या सहस्रं तु प्रकीर्तितं ॥५॥ दशैवातिजगत्योऽपि तथा सप्त न संशयः। शक्कर्योऽपि तथैवोक्तास्तथा नव विचक्षणैः ॥६॥ नव चैवातिशक्कर्यः षकष्टयः प्रकीर्तिताः । अशीतिश्च चतसश्च तथात्यष्टिऋचः स्मृताः ॥७॥ धृतिवयं विनिर्दिष्टमेकातिधृतिरेव च । एकपदास्तु षट् प्रोक्ता द्विपदा दश सप्त च ॥६॥
1 चैव W2. * Weber, Ind. Stud. VIII, p. sr note. IF; नवति च चक्षणैः W2. +W2; पळष्ट्यः परिकीर्तिताः I. अशीतिश्चतम्रश्च W2; अशीतिश्च चसश्च I 5. 6 ofष्टमुचःW 2, IT. धृतिईयं W 2, I5.
For Private And Personal Use Only