________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथ शौनकाचार्यकृतानुवाकानुक्रमणी ॥
॥ श्रीगणेशाय नमः॥ सर्व कर्म सफलं' यत्र तुष्टेऽतुष्टे न किंचितमहं नमामि । विनायकं गिरिराजेंद्रपुत्रीमहेश्वरप्रियसूनुं घृणाधिं ॥१॥ बहुचानां जनानां तु शौनकस्य प्रसादतः । अनुवाकानुक्रमणीरूपं किंचित्प्रवर्ण्यते ॥२॥ पितृदेवर्षिश्राद्धेभ्यो ब्राह्मणेभ्यश्च सर्वशः। आचार्येभ्यो गुरुभ्यश्च प्रणम्य प्रयतः शुचिः ॥३॥ मधुच्छंदःप्रभृतिभिर्ऋषिभिर्हि तपोबलात् । दृष्टानामनुवाकानामृजु वक्ष्याम्यतंद्रितः ॥४॥ सूक्तादि परिमाणं तु संख्यां च क्रममेव च । मंडले मंडले चैव यावंतो हि समीरिताः ॥५॥ सूक्तसंख्यानुवाकानां सूक्तानामृक्समाहिता'। पदाक्षरसमानायं छंदस्येव प्रतिष्ठितं ॥६॥ एकैकमनुवाकं तु खिलानि ब्राह्मणानि च । संवत्सरे संवत्सरे पठेदहरहः शुचिः ॥७॥ श्रावणस्य तु मासस्य पौर्णमास्यामुपक्रमः। समाय तर्पयेद्देवानृषीपितृननुक्रमात् ॥॥ 1 C1; कर्मफलं WI, C. B, C 1; 'देवऋषि C, WI. ३०माध्येभ्यो B; सिद्धेभ्यो C 209 b, 3 (Weber's Catal. No. 48). + B, C I; मधुचंदप्र° WI, C. मृछु B, C 209. दृष्टानामनुवाकानां संख्यां C 209; आदिं सूक्तपरिमाणं संख्यां क्रममेव च B.
7 B omits this line.
For Private And Personal Use Only