SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥२४॥ Kaa www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततियसमते आवलियातीयं उदयं आगच्छति तेण पढमसमयग्गहणं ॥ २९-३० ॥ । -( मलय ० ) - ' संजोयणा' इत्यादि - 'संयोजनान्' अनन्तानुबन्धिनो विसंयोज्य, तद्विसंयोजने हि शेषाणामपि कर्मणां भूयांसः पुद्गलाः | परिसरन्ति इति तदुपादानम् । ततो जघन्यं देवत्वं प्राप्तः, तत्र चातिनिरुद्धे पश्चिमेऽन्तर्मुहूर्ते प्रतिपन्नमिध्यात्व एकेन्द्रियप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थितिं बद्धा सर्वसंक्लिष्ट एकेन्द्रियेषूत्पन्नस्तत्र चान्तर्मुहूर्त स्थित्वाऽसंज्ञिषु मध्ये समायातः । देवो हि मृत्वा नासंज्ञिषु मध्ये गच्छतीति कृत्वा एकेन्द्रियग्रहणम् । ततोऽसंज्ञिभवाल्लघु शीघ्रं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्व शीघ्रं पर्याप्तः । तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेर्जघन्यः प्रदेशोदयः । पर्याप्तस्य हि प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयगताश्च स्तिबुकसंक्रमेण न संक्रामन्ति, तेन प्रकृत्यन्तरदलिकसंक्रमाभावात् जघन्यः प्रदेशोदयः प्राप्यत इति 'सब्वपञ्जत्ते' इत्युक्तम् । आनुपूर्व्यचतस्रोऽपि 'गति तुल्याः' - स्वस्वगतितुल्या ज्ञेया ज्ञातव्याः । केवलं 'भवादौ - भवप्रथमसमये वेदितव्याः । तृतीये हि समयेऽन्या अपि बन्धावलिकातीताः कर्मलता उदयमागच्छन्ति ततो भवप्रथमसमयग्रहणम् ॥२९-३० ॥ (उ० ) -- संयोजनाननन्तानुबन्धिनो विसंयोज्य तद्विसंयोजने शेषाणामपि कर्मणां भूयः पुद्गलपरिशाटो भवतीति तदुपादानम् । (ततो जघन्यं देवत्वं प्राप्तः ) तत्र चातिनिरुद्धे पश्चिमेऽन्तर्मुहूर्त्ते प्रतिपन्नमिध्यात्व एकेन्द्रियप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थितिं बद्धा सर्वसंक्लिष्ट एकेन्द्रियेषु मध्ये समुत्पन्नः । तत्र चान्तर्मुहूर्त्त स्थित्वाऽसंज्ञिषु मध्ये समागतः । देवो हि मृत्वाऽऽनन्तर्येण नासंज्ञिषु गच्छतीत्यनन्तरै केन्द्रियभवग्रहणम् । ततोऽसंज्ञिभवाद् शेषासंज्ञिसर्वजीवापेक्षया लघु- शीघ्रं मृत्वा नारको जातः, सर्वपर्याप्तिभिश्च शीघ्रं पर्याप्तस्तस्मिन् सर्वपर्याप्तिपर्याप्ते नारके नरकगतेर्जघन्यः प्रदेशोदयः । पर्याप्तस्य प्रभूताः प्रकृतयो विपाकोदयमायान्ति, उदयप्राप्ताश्च स्तिबुक For Private and Personal Use Only Maria Sa उदयः जघन्यप्र देशोदयस्वामित्वं ॥२४॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy