SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NA ADIOHD वाच्यानि । सत्तास्थानान्येकेन्द्रियविकलेन्द्रियाणां पञ्च, तद्यथा-द्विनवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । पञ्चेन्द्रियाणां च द्वादशापि सत्तास्थानानि । ___ अथ जीवस्थानेषु बन्धोदयसत्तास्थानानि प्रतिपाद्यन्ते-तत्र ज्ञानावरणान्तरायदर्शनावरणानां बन्धोदयसत्तास्थानेषु ये भगा मिथ्या1 दृष्टौ भवन्ति त एव पर्याप्तसंक्षिपञ्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु ज्ञेयाः । तत्र ज्ञानावरणस्यान्तरायस्य च प्रत्येकं पञ्चविधो |बन्धः, पञ्चविध उदयः, पञ्चविधा सत्ता। दर्शनावरणस्य नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा नवविधो बन्धः पश्च विध उदयो नवविधा सत्ता । संज्ञिपर्याप्ते तु ये गुणस्थानोक्ता भङ्गास्त एवान्यूनानतिरिक्ता वेदितव्याः। वेदनीयस्यायेषु त्रयोदशसु. जीवस्थानेष्वादिमाश्चत्वारो भङ्गाः, तद्यथा-असातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धः सातस्योदयो द्वे सती, यद्वा | सातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती इति । गोत्रस्य त्रयो भङ्गाः, तद्यथा-नीचैर्गोत्रस्य | बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् , एष विकल्पस्तेजोवायुकायिकेषु लभ्यते । तद्भवादुद्वृत्तेष्वपि कियत्कालं नीचैर्गोत्रस्य बन्धः | नीचैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती । शेषास्तु भङ्गा न भवन्ति, तेचैर्गोत्रस्योदयाभावात् । | आयुर्विचारे तिर्यगायुरुदये ये नव भङ्गास्ते सर्वेऽप्यसंज्ञिपर्याप्त द्रष्टव्याः, तेषां मर्वेषामपि तस्मिन् संभवात् । एकेन्द्रियाणां विकले। |न्द्रियाणां च पर्याप्तापर्याप्तानां त एव सुरनारकाश्रितभङ्गचतुष्टयरहिताः पञ्च भङ्गा द्रष्टव्याः, तेषां देवनारकायुबन्धाभावात् । असज्ञिन्यपर्याप्ते तिरश्चि मनुष्ये चैत एव पञ्च पञ्च भङ्गा अन्यूनानतिरिक्ता द्रष्टव्याः । तथा मनसा पर्याप्तेऽष्टाविंशतिरप्यायुषो भङ्गा ज्ञेयाः। मनसाऽपर्याप्त संज्ञिनि पञ्च मनुष्ये पञ्च तिरश्चीति सर्वसंख्यया दश भङ्गाः, एते लब्ध्यपर्याप्तके । तथा देवनारकाणां करणापर्याप्ता-16) GOOccasODODIODY C ONCE For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy