________________
Shri Mahavir Jain Aradhana Kendra
कर्मप्रकृतिः ॥१०२॥
१
बन्धाभावात् । सातस्य बन्धोऽसातस्योदयो द्वे सती ३, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती ४, इमौ द्वौ भङ्गौ मिथ्यादृष्टेरारभ्य सयोगिकेवलिचरमसमयं यावत् । परतो बन्धाभावेऽसातस्योदयः सातासाते सती ५, अथवा सातस्योदयः सातासाते सती ६, एतौ द्वौ भङ्गौ अयोगिकेवलिद्विचरमसमयं यावत् । चरमसमयेऽसातस्योदयोऽसातं सत्, यस्य द्विचरमसमये सातं क्षीणं ७, यस्य त्वसातं द्विचरमसमये क्षीणं तस्य सातस्योदयः सातस्य सत्ता ८ । सर्वसंख्यया वेदनीयाः सांवेधिका अष्टौ भङ्गाः ।
ज्ञानावरणे विध्ने च संवेधभंगाः २
२
५
५
५
www.kobatirth.org
५ बंधका
५.
१० यावत्
अबंधकाले १२ यावत्
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानावरणान्तराययोश्च पञ्चानामेव बन्ध उदयः सत्ता च बन्धोपरमेऽपि पञ्चानामेवोदयः सत्ता चेति द्वौ भङ्गौ । तदेवमल्पवक्तव्यत्वादुक्तानि प्रथमतः पद कर्माणि ।
अथ मोहनीयस्य बन्धोदयसत्तास्थानान्युच्यन्ते - मोहनीयस्य दश बन्धस्थानानि, तद्यथा- प्रथमं बन्धस्थानं द्वाविंशतिः, सा चाद्यगुणस्थाने । द्वितीयमेकविंशतिः, सा च द्वितीयगुणस्थाने । तृतीयं सप्तदश, तत्तृतीयतुरीयगुणस्थानयोः । चतुर्थं त्रयोदश, तच्च पञ्चमे गुणस्थाने । पश्चमं नव, तच्च पष्ठसप्तमाष्टमगुणस्थानेषु । षष्ठं पश्ञ्चप्रकृत्यात्मकं, सप्तमं चतुष्प्रकृत्यात्मकं, अष्टमं त्रिप्रकृत्या - त्मकं नवमं द्विप्रकृत्यात्मकं दशममेकप्रकृत्यात्मकं, इमानि पञ्चादीनि पञ्च बन्धस्थानानि नवमगुणस्थाने द्रष्टव्यानि । अत्र मिथ्यात्वं षोडश कषाया अन्यतमो वेदोऽन्यतरद्युगलं भयं जुगुप्सा चेति द्वाविंशतिः । एषा च हास्यरतियुगलेऽरतिशोकयुगले च पर्यायेण
For Private and Personal Use Only
मोहनीयस्य बंधस्थानानि
॥१०२॥