________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
कर्मप्रकृतिः
॥७८॥
सत्ता प्रदेशसत्क|मस्थानप्ररूपणा
reOOGLख
स्थानमायाति । इहैकैककर्मस्कन्धोत्तरवृद्धथभिधानं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा तु प्रागेककप्रदेशोत्तरवृद्धिरेवाभिहितेति द्रष्टव्यम् । तदेवमुक्तं स्पर्धकानां सामान्यलक्षणं, अथोद्वलनप्रकृतीनां स्पर्धकारूपणामाह-'एग उव्वलमाणी', अत्र प्रथमैकवचनस्य षष्ठी| बहुवचनपरत्वादुद्वल्यमानप्रकृतीनां त्रयोविंशतिसंख्यानामेकं स्पर्धकमित्यर्थः। तत्र सम्यक्त्वस्य तावद्भावना विधीयते-अभव्यप्रायोग्य| जघन्यस्थितिसत्कर्मा बसेषु मध्ये समुत्पद्य तत्र सम्यक्त्वं देशविरनिं चानेकवारान् लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशं | सागरोपमशतं च यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्विरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखण्डं संक्रमेण परिगलितमेका च शेषोदयावलिका तिष्ठति, तामपि च स्तिबुक संक्रमेण मिथ्यात्वे संक्रमयति, संक्रमयतश्च यदेका स्थितिबिसमयमात्राऽवशिष्यते तदा सम्यक्त्वस्य जघन्यं प्रदेशसत्कर्मस्थानं, ततो नानाजीवापेक्षयकैकप्रदेशवृद्धयाऽनन्तानि प्रदेशसत्कर्मस्थानानि तावन्नेतव्यानि यावद्गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति, इदमेकं स्पर्धकम् । एवं सम्यग्मिध्यात्वस्यापि निरवशेष वाच्यम् । एवमेव च शेषाणामप्युद्ध| लनयोग्यानां वैक्रियैकादशकाहारकसप्तकोच्चोत्रमनुष्यद्विकरूपाणां वाच्यम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्य व| कालो मूलत एव न वाच्यः । इहोद्वलनप्रकृतीनामेकस्पर्धकाभिधानमुपलक्षणपरं द्रष्टव्यं, न तु शेषनिषेधपरं, यावता प्रागुक्तानामनुदय | वतीनामिवासामप्यावलिकासमयसमान्येव स्पर्धकानि लभ्यन्त इति । उक्तं च पञ्चसंग्रहे-“अणुदयतुलं उव्वलणियाण जाणिज दीहउव्वलणे त्ति"-उदलनप्रकृतीनां दीर्घोलने चिरोद्वलने क्रियमाणे स्पर्द्धकपटलमनुदयतुल्यमनुदयप्रकृतितुल्यं जानीहीत्येतदर्थः । 'लोभजसा णोकसायाण' ति-प्रथमायाः षष्ठयर्थत्वात् संज्वलनलोभयशःकीयो।कषायाणां च षष्णामेकं स्पर्धकम् । तत्राभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकमांशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा
Ghoda HD
॥७८॥
For Private and Personal Use Only