SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मप्रकृतिः ॥७१॥ LAMBD www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदं तृतीयं स्पर्धकम् । एवं समयद्वयोनावलिकाद्विके यावन्तः समयास्तावन्ति स्पर्धकानि भवन्ति । तत आह- 'अहिगाणि य आवलिगांए' इत्यादि । योगस्थानानि कृत्स्नानि समस्तानि समुदायैकरूपतया विवक्षितानि सकलयोगस्थानसमुदाय इत्यर्थः, आवलिकागतैः समयैः समयद्वयहीनैर्गुण्यन्ते। गुणिते सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति प्रथमस्थितौ व्यवच्छिन्नायामधिकानि स्पर्धकानि भवन्ति । तथाहि -बन्धादिव्यवच्छेदानन्तरसमये समयद्वयोनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि प्राप्यन्ते । एतच्चानन्तरमेव भावितम् । बन्धादिव्यवच्छेदादूर्ध्वं च प्रथमस्थितिरावलिकामात्रा तिष्ठति । ततस्तस्यामावलिकामात्रायां प्रथमस्थितौ संक्रमेण व्यवच्छिद्यमानायां परत आवलिकासमयप्रमाणानि स्पर्धकानि अन्यत्र संक्रमेण व्यवच्छिद्यन्ते । अत एव च तानि पृथक् न गुण्यन्ते । ततस्तेषु व्यवच्छिन्नेषु प्रथमस्थितौ च व्यवच्छिन्नायां शेषाणि समयद्वयोनावलिकासमय प्रामाणान्येवाधिकानि प्राप्यन्ते, नान्यानीति ॥४५॥ (उ० ) - संज्वलनत्रि के क्रोधमानमायारूपे एवं पूर्वोक्तेन प्रकारेण स्पर्धकानि वाच्यानि । अयमिह तात्पर्यार्थः- क्रोधादीनां प्रथमस्थितिर्यावदावलिका शेषा न भवति तावत् स्थितिघातरसघातबन्धोदयोदीरणाः प्रवर्तन्ते, आवलिकाशेषायां तु प्रथमस्थिताववतिष्ठमानायां ता व्यवच्छिद्यन्ते, ततोऽनन्तरसमये समयोनावलिकागतं समयद्वयोनावलिका द्विकबद्धं च सदस्ति, अन्यत्सर्वं क्षीणं, तत्र समयो| नावलिकागतदलिकस्पर्घक भावना प्राग्वदेव कर्तव्या । समयद्वयोनावलिकाद्विकबद्धदलिकस्य पुनरन्यथा स्पर्धकभावना क्रियते, सत्कर्मवृद्धिप्रकाराद्वन्धकृत वृद्धिप्रकारस्यान्यथाभावात् प्रागुक्तरीत्याऽत्र स्पर्धक स्वरूपस्याप्राप्यमाणत्वात् । अथ कथं स्थितिघातरसघातबन्धोदयोदीरणाव्यवच्छेदानन्तरं समयद्वयोनावलिकाद्विकबद्धमेव सदस्ति, न शेषमिति प्रतीतिपथमायाति ? उच्यते-इह चरमसमय क्रोधादिवे For Private and Personal Use Only ぴぐあうぐら सत्ता प्रदेशसत्क स्थान प्ररूपणा ॥७१॥
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy