________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोडशे पटले-'त्रित्रिकावस्थरूपेण त्रयं कृत्वा विधा स्वयम् । राशीनां भगवान् विष्णुर्लोकानुग्रहकृत् स्थितः ।' (प. १५६ ) इत्यादिना मन्त्राणां स्थूलसूक्ष्मपरभेदेन त्रेधाऽवस्थितानां प्रत्येकं स्थूलमध्यपरभेदेन त्रैविध्यं निरूपितम् । तथा च मन्त्रराशेर्नवविधत्वं सिद्धयति ।
तत्प्रकारश्चायम् (स्थूल राशिः) स्थूलस्थूलः २३-२२-२१ अङ्कशादिगरुडान्तः स्थूलमध्यः २०-१९-१८ गदादिशङ्खान्तः स्थूलपरः १७-१६-१५ पद्मादिकौस्तुभान्तः (सूक्ष्मराशिः) सूक्ष्मस्थूलः १४-१३-१२ वराहादिसिंहान्तः सूक्ष्ममध्यः ११-१०-९-८-७-६ अस्त्रादिहृदन्तः सूक्ष्मपरः ५-४-३-२ मायादिलक्ष्म्यन्तः (परराशिः ) परस्थूलः १ मूर्तिमन्त्रो मूलमन्त्रसहितः परमध्यः २८-२७-२६-२५-२४ अनिरुद्धादिसत्यान्तः परपर। २९ व्यापकमन्त्रः सप्तार्णः
(अत्र निर्दिष्टा अङ्का मन्त्रमत्यभिज्ञापका मन्त्रसूचीतो बोध्याः) मुख्यमन्त्राणामेष विभागः । उपकरणमन्त्राश्चान्ये सप्तमे पटले निरूपिताः ।
तथाच सिद्धमेतत्यत् ब्रह्मणः श्रुतिशिरम्मथितं स्वरूपं निःश्रेयसं तदुपसंपदनं यदेतत् । यद्वेदनं तदुपसंपदने निदानं प्राधान्यतस्तदिदमेव निरूप्यतेऽत्र । इति । विनोपासनया तस्य नापरोक्षं प्रसिद्धयति । परोक्षाद्वेदनात्तस्य नोपसंपदनं भवेत् ।। तदश्यमपेक्ष्यन्ते नियतास्तदुपासनाः । नामरूपगुणादीनां भेदतस्तदुपासनाः ।।
For Private and Personal Use Only