________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[पञ्चरात्रे प्रभेदाः ] अस्य पञ्चरात्रस्य-आगमसिद्धान्तमन्त्रासिद्धान्ततन्त्रसिद्धान्ततन्त्रान्तरसिद्धान्तभेदेन चातुर्विध्यमपि स्मयते । तथा चेश्वरसंहितायाम्
'चतुर्धाभेदभिनोऽयं पञ्चरात्राख्य आगमः । पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसंज्ञितम् । तृतीयं तन्त्रमित्युक्तमन्यत्तन्त्रान्तरं भवेत् ।' इति ( ई० अ० २१) ।
इयं चेश्वरसंहिता अर्वाचीना, अन्या च भगवद्यामुनाचार्यैरागमप्रामाण्ये समुदाहृता, सा हि संहिता ईश्वरस्य तत्सुतस्य षण्मुखस्य च संवादरूपा, तथा चागममामाण्येऽनुवादः-'तद्यथेश्वरसंहितायाम्-दुर्लभो भगवद्भक्तो लोकेऽस्मिन् पुरुषः सुत । ........ अतश्च भावहीनानामभक्तानां च षण्मुख ।' इति (आ०प०८१-८२)। अनयोरन्यतरस्या अर्वाचीनत्वविचारोप्रकृत इति प्रासङ्गिकादुपरम्यते । अयमागमसिद्धान्तादिभेदः पाझेऽपि निरूप्यते'प्रथमं मन्त्रसिद्धान्तं द्वितीयं चागमाभिधम् । तृतीयं तन्त्रसिद्धान्तं तुर्य तन्त्रान्तरं भवेत् ।' इति (पा० चर्यापा० अ० १९) ।
पाश्चरात्रश्रुतितरोः सर्वसेव्यस्य संमति । दृश्यन्ते संहिताशाखाश्चतुर्विधफलाः शतम् ॥
पौष्करे-आगमनिर्णयाख्ये चत्वारिंशेऽध्याये - न्यूनमध्यमोत्तमभेदेनागमं त्रेधा विभज्य प्रत्येकं तेषां त्रैविध्यं । अनुष्टुप्छन्दोबन्धेन अर्धे श्लोकशतात्तु यत् । पादसंज्ञं च तच्छास्त्र'मित्यादिना श्लोकसंख्याभेदैः संज्ञाभेदेन निरूप्यते । तत्रोत्तमविभागे द्विषद्सहस्रपर्यन्तं संहिताख्यं तदागमम् । ये चान्ये चा ............ शास्त्रार्थेनाधिकाः शतैः' इति संहितालक्षणमुक्तम् । 'दिव्याघवान्तरे 'त्यादिनाऽन्योऽपि भेदभकारस्तत्र सूचितः, स च भेदः'वासुदेवेन यत्रोक्तं शास्त्रं भगवता स्वयम् । अनुष्टुप्छन्दोबन्धेन समासव्यासभेदतः । तथैव ब्रह्मरुद्रेन्द्रप्रमुखैश्च पवर्तितम् । लोकेष्वपि च दिव्येषु तदिव्यं मुनिसत्तमाः । ब्रह्मरुद्रमुखैर्देवै ऋषिभिश्च तपोधनैः । स्वयं प्रणीतं यच्छास्त्रं तत् ज्ञेयं मुनिभाषितम् ।' इति ईश्वरसंहितायां निरूपितः । तासामासां संहितानां नामनिर्दशपूर्वकं गणना अमिपुराणे कपिजलसंहितायां पावसंहितायां विष्णुसंहितायां हयशीर्षसंहितायां च पर्वते ।
For Private and Personal Use Only