________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३३
न जानाति समाधिस्थो हादमाज यदान्तरे । परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् ॥ ६४ ॥ न वेत्ति पार्थिवं गन्धं स बाह्याभ्यन्तरे यदा । पिण्डपातस्तदा विम बोद्धव्यो न चिरेण तु ॥ ६५ ॥ पार्थिव्या संस्थितश्चैव धारणायां समाहितः। न वेत्ति शब्दं प्रागुक्तं पञ्चाहात्पञ्चमे क्षणे ॥६६॥ स्थितस्समाधौ वाऽप्येतौ शीतोष्णौ नानुविन्दति । पतेदिनचतुष्केण पिण्डस्तत्कलिते क्षणे ॥ ६७ ॥ रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि । न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः ॥ ६८॥ पिण्डपातो घवश्यं स्यात्तृतीयेऽह्नि तथा क्षणे । समाधौ यदि वायव्ये योगी नारद वतेते ॥ ६९ ॥ न वेत्ति परमाह्नादं वृषितः परिझम्पते । दिनद्वयेन पिण्डस्य पातः स्याद्वितये क्षणे ॥ ७० ॥ स्थितो 'गगनभावे तु मागुक्तविधिना यदि । न वेत्ति विविधं गन्धमन्तबर्बाह्ये शुभाशुभम् ॥ ७१ ॥ तत्रैवास्य दिने पातः क्षणे प्रथमलक्षणे । ध्यात्वैवं मुनिशार्दूल योगी ध्यानैकमानसः ॥ ७२ ॥ स्वयमुत्क्रमते पिण्डाद्यायाब्रह्मनिकेतनम् । प्रविशेत्पिण्डमन्यं वा प्राग्वत्सन्धानयोजितः ।। ७३ ॥ कालो यदेहपातस्य लक्षणेन समासतः । कथितः सारभूतस्य वायोस्संरोध उच्यते ॥ ७४ ॥ सगर्भ हृदयावासादुद्धत्य कतलावधि । अपमेयविहीनं तु विकरालं नियोजयेत् ॥ ७५ ॥ प्रधानं कण्ठकूपे तु न याति हृदयं पुनः । स्मरेद्विजन्मपुटके(?)प्रधानं व्यापकोज्झितम् ॥ ७६ ॥ पम्धानं नन्द...........येत्सन थमवर्जितम् ।
रोधमार्गद्वयस्यैवं दद्यात्सव्येतरस्य तु ॥ ७७ ॥ I भगन A 2 दन्तकोटिस्थं A
For Private and Personal Use Only