________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. ३३
चन्द्रार्काग्निमयं बिम्ब रविमण्डलसन्निभम् । . शुक्लरूपधरञ्चापि गुणोत्कर्षप्रदायकम् ॥ ३८ ॥ ततः सूक्ष्मतरं बिन्दु राजमुद्गसमप्रभम् । तं विद्यात्सर्वमन्त्राणामूर्ध्वमाक्रम्य तिष्ठति ॥ ३९ ॥ ततस्तु राजकाबीजप्रमाणं चिन्तयेत्ऋमात् । उत्पादकमथास्यापि यस्यान्ते नादमाश्रितः ॥४०॥ तं विलीय समुत्पन्नमश्ववालप्रमाणकम् । यस्सदा गच्छति व्योम्नि मनश्चागच्छते हृदि ।। ४१ ।। ततो विचिन्तयेत्सूक्ष्म शिरोवालप्रमाणकम् । ब्रह्मनाडीमनेनाशु पश्यन्ति ध्यानसेचनात् ।। ४२ ॥ ततोऽङ्गरोममात्रं तु बिसवालसमं ततः । ध्यायेनियममास्थाय ब्रह्मनाडीप्रकाशकम् ॥ ४३ ॥ तदा सा दृश्यते नाडी सादृश्यरहिता परा । तया यायात्परं स्थानं ब्रह्मरन्ध्रपथेन तु ॥ ४४ ।। एवं तु निष्कलं ध्यायेत्सोऽपि लीनः परे पदे । परं त्वभ्यसमानस्य उन्मनस्त्वं प्रजायते ॥ ४५ ॥ ततस्तु व्यज्यते सत्ता स्वकीया ब्रह्मरूपिणी । शब्दरूपं तु वा ध्यायेदेवं सकलनिष्कलम् ॥ ४६ ।। नारायणात्मकं मन्त्रं पणवादिनमोन्तकम् । ध्यायेच्छब्दमयो ह्येष सकलः परमेश्वरः ॥ ४७ ॥ निष्कलं वर्णमेकं तु क्षौं ह्रीं(?)वाऽपि चिन्तयेत् । ततोऽपि निष्कलं बिन्दु तन्मूर्धस्थं त्रिदैवतम् ॥ ४८ ।। सा शक्तिस्तत उत्पन्ना प्रमाणाधेप्रमाणका । सा शक्तिीयते नादे नादो याति लयं परे ॥ ४९ ॥ एवं हि ध्यानयोगेन परं पश्यन्ति शाश्वतम् । अथ वाऽऽलोकशब्दौ हि प्रथयित्वा विचिन्तयेत् ॥ ५० ॥
स्वयं विलीनो यत्रैव तत्रैव परमं पदम् । I नवा C L नवां s
For Private and Personal Use Only