________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३२]
साधनविधिः
ध्यायेन्जिह्वादिसंस्थां च वागीशी रक्तभास्वराम् ॥५०॥ वज्रपंजरमध्यस्थां वाक्स्तम्भमुपपादयेत् । ध्यायेत्संप्रतिपन्नस्य जिह्वामध्यगतां यदा ॥ ५१ ।। चन्द्रमण्डलमध्यस्थां तुषारनिचयप्रभाम् । स्रवन्तीममृतं वक्रात्तेन तस्य च विग्रहम् ॥ ५२ ॥ संसिक्तं तु स्मरद्विप तत्क्षणात्स कविर्भवेत् । पुष्पमण्डलमध्ये तु कृत्वा कुंभं तु राजतम् ॥ ५३॥ मध्वम्मःपयसा पूर्ण तन्मध्ये परमेश्वरीम् । पूजयित्वा तु सप्ताहं सितपुष्पानुलेपनैः ।। ५४ ॥ अष्टमेऽहनि वै यस्य दद्यात्तोयाञ्जलित्रयम् । स्वहस्तेन तु पानार्थ पीत्वाऽसौ बुद्धिमान्भवात् ॥ ५५ ॥ शान्तिकं पौष्टिकं वाऽ पि तत्स्नानादवगाहनात् । जायते जडबुद्धीनामस्वस्थानां विशेषतः ॥ ५६ ॥ शताभिमन्त्रितं कृत्वा वचां यः प्रत्यहं द्विज । भक्षयेत्तत्र सप्ताह स वाग्मी मतिमान्भवेत् ॥ ५७ ॥ इष्टा देवीं त्रिसप्ताहं सिततामरसोदरे । निवेद्य सघृतं भक्तया परमानं चरुस्थितम् ॥ ५८॥ तचोष्मणा युतं तृप्तं भुङ्के निश्शोषतस्तु यः । बालो बालाऽथवा कन्या नानाशास्त्रार्थविद्भवेत् ॥ ५९॥ वक्रादविरतं चापि शास्त्राण्युगिरते 'महत् ।। भवत्योजः क्षयो दुरात्पण्डितानां महामते ॥ ६०॥ कृत्वाऽभ्यासं तु गनसा सबाह्याभ्यन्तरं तु वै।। उदासीनस्य मूर्खस्य अपूर्वस्य च संसदि ॥ ६१ ॥ सोऽपि वेदाहरेच्छास्तां तदाज्ञापरिचोदितः । सर्वार्थसिद्धिदा देवी सिद्धा वागीश्वरी भवेत् ।। ६२ ॥ धनकामस्य धनदा पुत्रकामस्य पुत्रदा।। राज्यदा राज्यकामस्य भोगकामस्य भोगदा ॥ ६३ ॥ जयदा जयकस्मस्य शान्तिकामस्य शान्तिदा ।
पुष्टिदा पुष्टिकामस्य तुष्टिकामस्य तुष्टिदा ॥ ६४ ॥ I महान् A 2 सद्यो A
For Private and Personal Use Only