SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५२ जयाख्यसंहिता [प. ३१ हृयागं विधिवत्कृत्वा मण्डलं निर्वदहिः ॥ ३१ ॥ अतसीपुष्पसंकाशं वर्णेन रजसा शुभम् । वृत्तं कदम्बगोलाभं पद्मगं मधुशोभनम् ॥ ३२ ॥ तत्राहूय जगनाथमुघत्सूर्यसमप्रभम् ।। पुष्पोपलेपनाद्यैस्तु मुसितैः पावनैर्यजेत् ॥ ३३ ॥ होमं कृष्णतिलैः कृत्वा होमान्ते विजनं वनम् । यायात्तत्र जपं कुर्यात् प्राक्ममाणेन नारद ॥ ३४॥ होमं कुयोत्तदर्धेन अतसीपुष्पसन्निभैः। तिलैरप्यसितैर्विन कृष्णागरुसमन्वितैः ॥ ३५ ॥ दद्यात्पूर्णाहुतिं पश्चात्ततः स परमेश्वरः । तोषमायाति विप्रेन्द्र तुष्टः सर्व ददाति च ॥ ३६ ॥ स्वयमेवानिरुद्धात्मा योजयेच्छाश्वते पदे । स बाह्याभ्यन्तरं सर्व दर्शयेत्साधकस्य च ।। ३७ ॥ येनासौ कृतकृत्यः स्यादनन्तफलभागपि । बहुनाऽत्र किमुक्तेन पञ्चकृत्यकसंयुतम् ॥ ३८॥ [सप्ताक्षरमन्त्रसाधनप्रकारः ] कृत्वा सप्ताक्षरं मन्त्रं विप्रहस्तेन वै पुरा । सकलीकृत्य विप्रेन्द्र भाग्वद्ध्यात्वा च निष्कलम् ॥ ३९॥ हृत्पुण्डरीकमध्ये तु पूजयित्वा जपेत्ततः । एकान्ते निर्जेने रम्ये वने पादपसंकुले ॥४०॥ सप्तलक्षाणि विप्रेन्द्र आयामत्रितयान्वितः । विना बाह्योपचारेण होमपूजादिकेन तु ॥४१॥ जपान्ते मुनिशादेल सवेकामानवाप्नुयात । अणिमाधास्तथा सिद्धीगुणषट्कं बलादिकम् ॥ ४२ ॥ चाचा ददाति सर्व च यस्य यन्मनसेप्सितम् । तुष्टः साधकमुख्योऽसौ क्रुद्धो लोकत्रयं दहेत् ।। ४३ ॥ देवासुरास्तथा नागाः सिद्धाश्चेन्मुक्तिभाजनाः । किंङ्करत्वेन वर्तन्ते योगसिद्धाश्च देवताः ॥ ४४ ॥ सप्ताक्षराभियुक्त........सत्यस्य महात्मनः। आचन्द्रतारकं कालं वलीपलितवर्जितः ॥ ४५ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy