________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. ३१]
उपाङ्गसाधनम् तिलानाज्येन संसिक्तान दत्वा पूर्णाहुतिं व्रजेत् ॥ १७ ॥ अशोकवनमध्यं तु तत्र लक्षचतुष्टयम् । जवाऽथ रक्तपुष्पाणां जुहुयालक्षमेव हि ॥ १८ ॥ लक्षं कुड्कुमपुष्पाणां दद्यात्पूर्णाहुतिं ततः । ततः सिध्यति मवेशः सिद्धः सिद्धिं प्रयच्छति ॥ १९ ॥ स्वयमप्यमयुक्तस्तु यद्यन्मनसि रोचते । विज्ञायते गतिर्मान्त्री सौषुप्ताख्या तु याखिला ॥ २० ॥ स्वयं स भगवान्देवः स्वपदे निष्कलात्मना । व्यक्तिमभ्येति भक्तानां मोक्षमार्गे नियोजयेत् ॥ २१ ॥
[प्रद्युम्नमन्त्रसाधनप्रकारः] अथ प्रद्युम्नमन्त्रेण कृत्वा स्वं मन्त्रविग्रहम् । हत्तामरसमध्ये तु कृत्वा यागं तु चेतसि ॥ २२ ॥ बहिः कदम्बपुष्पाभं रजसा हेमरूपिणम् । सपद्ममण्डलं कृत्वा तत्राहूय जगत्पतिम् ॥ २३ ॥ उपचारेण पीतेन यजेत्पुष्पादिना तु वै । रजनीपूर्णसंमिश्र सतिलं जुहुयाद्धृतम् ॥ २४ ॥ दत्वा पूर्णाहुतिं यायात्कदलीकाननान्तरम् । जपं पूर्वोक्तसंख्यातं तत्र कृत्वा तु नारद ।। २५ ॥ मिश्रितं कुङ्कुमेनैव प्राक्कृत्वा निस्तुषं तिलम् । मुगन्धिशालिसंमिश्रं लक्षमानन होमयेत ॥ २६ ॥ भावितं कुंकुमेनाथ कथितं च पुरा मुने । अयुतत्रयमानेन पयो गव्यं तु होमयेत् ॥ २७ ॥ पदराण्डप्रमाणानां घृताक्तानामनन्तरम् । अयुतं गुलिकानां तु गुग्गुलोरथ होमयेत् ॥ २८ ॥ ततस्त्वाज्यस्य जुहुयादयुतं केवलस्य च । दधात्पूर्णाहुतिं पश्चान्मन्त्रेशस्सिध्यते ततः ॥ २९ ॥ सप्तलोकगतान्भावानप्रयुक्तो ददाति च । योजयेत्सिद्धिमार्गे तु ततो मोक्षपथेन वै ॥ ३०॥
[अनिरुद्धमन्त्रसाधनप्रकारः] पुराऽनिरुदमन्त्रेण सकलीकृत्य विग्रहम् ।
For Private and Personal Use Only