________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मक्षये च मद्भक्तो यदि कश्चित भविष्यति ॥ तस्य वेदाः पञ्चरात्रं नित्यं हृदि वसिष्यति ।" (कौमें) " शास्त्रं च वेदाः स्मृतयः पुराणं च तदात्मकम् ॥ इतिहासः पञ्चरात्रं भारतं च महामते ।
एतैरेव महाविष्णु यो नान्यैः कथञ्चन ॥" (स्कान्दे) इति ।
___ तस्यास्य पाश्चरात्रस्येश्वरमोक्तत्वेनेव श्रुतिमूलकतयापि प्रामाण्यं समर्थयन्तः पूर्वाचार्याः प्राहुरेकायनशाखामस्य मूलभूताम् । तथात्वे च प्रमाणमिदमामनन्ति ।
'पुरा तोतादिशिखरे शाण्डिल्योऽपि महामुनिः। समाहितमना भूत्वा तपस्तत्त्वा सुदारुणम् ॥ द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च । साक्षात् सङ्कर्षणाल्लब्ध्वा वेदमेकायनाभिधम् ॥ सुमन्तुं जैमिनि चैव भृगुं चैवौपगायनम् । मौज्ज्यायनं च तं वेदं सम्यगध्यापयत् पुरा ॥ एष एकायनो वेदः प्रख्यातः सर्वतो भुवि । दुर्विज्ञेयो दुष्करश्च प्रतिबुद्घनिषेव्यते ॥' 'शृणुध्वं मुनयः सर्व वेदमेकायनाभिधम् । मोक्षायनाय वै पन्था एतदन्यो न विद्यते ॥ तस्मादेकायनं नाम प्रवदन्ति मनीषिणः ।। 'जगन्मूलस्य वेदस्य वासुदेवस्य मुख्यतः ॥ पतिपादकता सिद्धा मूलवेदाख्यता द्विजाः।' " अनुग्रहार्थ वर्णानां योग्यतापादनाय च ॥ तथा जनानां सर्वेषामभीष्टफलसिद्धये । मूलवेदानुसारेण छन्दसाऽऽनुष्टुभेन च ॥ सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् । दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः ॥
प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ।" (ईश्वरसंहिता अ. १) इति । श्रूयते चेयमेकायनशाखा छान्दोग्योपनिषदि भूमविद्यायाम् ।
For Private and Personal Use Only