________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
___३८
ते व्यूह इति निर्दिष्ट ओङ्कारो विष्णुरव्ययः।" (योगयाज्ञवल्क्ये) "वैदिकेन विधानेन पूजां कुर्याद्धरेस्ततः ।। अलाभे वेदमत्राणां पाश्चरात्रोदितेन वा" । (जमदग्निस्मृती) "पुराणैश्चैव वेदैश्च पाश्चरात्रैस्तथैव च । ध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥” (उत्तररामायणे) " इदं शतसहस्राद्धि भारताख्यानविस्तरात । आविश्य मतिमन्थानं दनो घृतमिवोद्धतम् ।। नवनीतं यथा दधो द्विपदा ब्राह्मणो यथा । आरण्यकं च वेदेभ्य ओषधीभ्यो यथाऽमृतम् ।। इदं महोपनिषदं चतुर्वेदसमन्वितम् । साङ्खययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥ इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ।" (भारते मोक्षधर्मे) " यदिदं पाश्चरात्राख्यं शास्त्रं परमदुर्लभम् । तद्भवान् वेत्स्यते सर्व मत्प्रसादान संशयः॥ वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज । प्राप्योऽहं नान्यथा पाप्यो वर्षलक्षशतैरपि ॥" " योगेश्वरं तु सौवर्ण दापयेत्पयतो नरः । वेदाय्ये तु समं दत्तं द्विगुणं त्ववित्तमे ॥ आचार्ये पाश्चरात्राणां सहस्रगुणितं भवेत ।" ( वाराहे ) " तृतीयमृषिसर्ग वै देवर्षित्वमुपेत्य सः। तनं सात्वतमाचष्ट नैष्कर्म्य कर्मिणां यतः ॥" " य आशु हृदयग्रन्थि निजिहीर्षुरिहात्मनः । विधिनोपचरेद्वेदतत्रोक्तेन च केशवम् ॥" (भागवते) "ऋगाथा भारतं चैव पञ्चरात्रमथाखिलम् । मूलरामायणं चैव पुराणं चैतदात्मकम् ।। ये चानुयायिनस्तेषां सर्वे ते च सदागमाः"। (ब्रह्माण्डे ) "वेदेन पाश्चरात्रेण भक्त्या यज्ञेन च द्विज । पाप्योऽहं नान्यथा प्राप्यो वर्षलक्षशतैरपि । पञ्चरात्रं सहस्राणां यदि कश्चिद्रहीष्यति ।
For Private and Personal Use Only