________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
जयाख्यसंहिता
[प. २८
पाषाणपादपानां तु मध्यस्थं यक्षिणीगणम् । संपश्यत्यचिरेणैतत्तदीयेन यथा मुने ।। ११० ॥ प्रविश्य क्रीडते सम्यक् तासां द्विज यथेच्छया । अदृश्यभूतो यक्षाणां स तेषामवलोकयेत् ॥ १११ ॥ सर्वदा चेष्टमानानां यक्षयोगानशेषतः। . औषधो(ध्यो?र्थास्तु विप्रेन्द्र तत्तन्मन्त्राश्च सर्वशः ॥ ११२ ॥ स्वयं वा यक्षकान्तानां सकाशादाहृतानि च ।। निर्याति(?) च प्रपन्नानां भक्तानां भावितात्मनाम् ॥ ११३ ॥ साधने ह्यसमर्थानां संप्रयच्छति साधकः । ते यक्षयन्त्रयोगानां सामर्थ्यान्मनसीप्सितम् ॥ ११४ ।। संप्राप्नुवन्ति चाकृष्टाः प्रभावात्साधकस्य च । पुनरभ्यञ्जयन्नेत्रे पूर्वोक्तविधिना यदि ॥ ११५ ॥ ईक्षते गगनान्तस्थान् सिद्धसंघाननेकशः । पूजयन्ति च ते तस्य साधकस्य महात्मनः ॥ ११६ ।। अभीप्सितं प्रयच्छन्ति स्वपथं वा नयन्ति च । उपसन्नस्य भक्तस्य वैष्णवस्य विशेषतः ॥ ११७ ॥ शताभिमन्त्रितं कृत्वा ह्यञ्जनं तु शलाकया। दद्यानेत्रद्वये यस्य स पश्यत्यखिलं मुने ॥ ११८ ॥ एकदेशस्थितश्चैव निखिलं विषयं तु तत् । नगाधैरपि विच्छिन्नं योगयोगेश्वरान्वितम् ।। ११९ ॥ डाकिनीभूतवेतालगणं चादर्शनस्थितम् । प्रहृष्टा दृष्टमात्रास्ते प्रभावात्साधकस्य च ॥ १२० ॥ धनाधिकं प्रयच्छन्ति उदासीनस्थितस्य च । सप्ताभिमन्त्रितं कृत्वा नेत्रमन्त्रेण चाञ्जनम् ॥ १२१ ॥ प्रदद्यान्नेत्रयुग्मे स्वे अरिमध्यगतो नरः। स यायाद्दर्शनं शश्वद्यत्र यत्र विशेच वा ॥ १२२ ॥ शताभिमन्त्रितं कृत्वा अदृष्टेच्छापथस्थितः । अन्यस्य यदि युञ्जीयात्सोऽपि यायाददर्शनम् ॥ १२३ ॥ अदर्शनगतो मन्त्री किं न कुर्याच भूतले । घृष्ट्वा निशाम्बुतोयेन अञ्जनं रोचनान्वितम् ॥ १२४ ॥
For Private and Personal Use Only