________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २८ ]
अजमन्त्रसाधनम् न शक्यतेऽभिभवितुं मन्त्रस्यास्य प्रभावतः । एतन्मूर्धाख्यमन्त्रस्य विधानं कथितं मया ॥ ४० ॥
[शिखामन्त्रसाधनप्रकारः] वक्ष्येऽधुना शिखाकल्पं संक्षेपाच्छृणु नारद । कृत्वा न्यासं तु हृद्यागं बहिरालिख्य मण्डलम् ॥ ४१ ॥ चतुरस्रं चतुर्दारं रेखापञ्चकभूषितम् । द्वाराणि सितवर्णानि रक्तवर्णानि चाश्रयः ॥ ४२ ॥ तन्मध्ये पङ्कजं कुर्याद्भिन्नाञ्जनसमममम् । तत्रावताये हृदयाद्विन्यस्य च यजेत्ततः ॥ ४३ ।। होमावसानं कृत्वा तु कृष्णाम्बरधरो व्रजेत् । शिखरमान्तभूभागं जपेल्लक्षत्रयं ततः ॥ ४४ ॥ जपान्ते जुहुयात्तत्र रक्तपुष्पायुतत्रयम् । रक्तचन्दनसंयुक्तं तदन्ते चायुतत्रयम् ॥ ४५ ॥ जुहुयाचन्दनेद्धानां मध्वाक्तानां तु नारद । दद्यात्पूर्णाहुति चान्ते चन्दनेन घृतेन च ॥ ४६॥ नदन्ते मन्त्रराट् सम्यक् ब्रह्मरन्ध्रोर्वगो वदेत् । गच्छ त्वं कुरु कर्माणि विविधानि महामते ॥ ४७ ॥ परितुष्टाऽस्मि ते सम्यक् होमेन च जपेन च ।
[मन्त्रसिद्धिजं सामर्थ्यम् ] ततम्साधकमुख्योऽसौ कुर्यात्कर्म यदीप्सितम् ॥४८॥ मन्त्रेणाद्यन्तरुद्धेन जपेन्नागवराभिधाम् । समायाति फणीन्द्रोऽपि हस्ते कृत्वा रसायनम् ॥४९॥ दर्शयेत्स्थाननिचयं निधीनां क्ष्मातले स्थितम् । तदाज्ञया वसेचैव दुर्गे तु गिरिमस्तके ॥ ५० ॥ मददज्जलमक्षय्यं स्वादुयुक्तं सुशीतलम् । क्षीरवृक्षलतायुग्मं स्फुटमादाय चोन्नतम् ॥ ५१ ॥ मन्त्रोदकेन संस्नाप्य बनीयात्तद्धटद्वये । स्तंभद्वयेऽथवा विप्र मुञ्जाथैमन्त्रितस्तृणैः ॥ ५२ ॥ मजप्य गुग्गुलुं धूपं शिखामन्त्रेण सप्तधा।
For Private and Personal Use Only