SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. २७ निक्षिप्य गोत्रजस्यान्तस्सप्तवाराभिमन्त्रिताम् । ध्यानमात्राक्षणस्यान्ते दधिक्षीराज्यपूरिताः ॥ १९२ ॥ भाण्डाश्च पृष्ठतः पश्येद्यत्र तत्र स्थितो व्रती । मजप्य बदरं विम फलमन्यत्तु वा कचित् ।। १९३ ॥ क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च । मपुष्पवाटिकायां तु पुष्पमेकं विनिक्षिपेत् ॥ १९४ ॥ जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत्क्षणात् । यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् ॥ १९५ ॥ तत्र तत्र च तत्तिष्ठेत्संकल्पे तु कृते सति । यथेच्छं तु समाकृष्टं तत्र तत्र च तहजेत् ॥ १९६ ॥ न चापि साधकवरस्संविण्णो (मो?) जायते कचित् । कृत्वाऽङ्गारकणं चैव शतजप्तं तु नारद ।। १९७ ॥ क्षिपेत्सलिलमध्ये तु ज्वलन्तं (मज्वलत्?) तत्मदृश्यते । कुशाग्रस्थं जलकणं शतवाराभिमत्रितम् ॥ १९८ ।। कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत् । भवेत्पानीयमिव च स वह्निदृश्यते क्षणात् ॥ १९९ ।। वालुकापरिपूणे तु अरण्यं च तृणोज्झितम् । दृष्ट्वा तत्र विनिक्षिप्य तृणं च शतमन्त्रितम् ॥ २००॥ पुष्पपत्रसमाकीर्ण पत्रपल्लवसंकुलम् । कुर्यान्नन्दनतुल्यं तं तोयशालिसमावृतम् ॥ २०१॥ नानाविहगसंपूर्ण पत्तनोपवनान्वितम् । पुरमाकारसंपूर्ण देवतायतनान्वितम् ॥२०२॥ गेयदेवध्वनियुतं ललनाभिश्च शोभितम् । नृपाणामेतदाश्चर्य दर्शनीयं सदैव हि ॥ २०३ ॥ अनोकहेष्वरण्येषु नीरसेषु सदैव हि । इच्छयाऽऽपस्तथाऽनानि भोगांश्च विविधानि च ॥ २०४ ॥ करोति मन्त्रितैर्लोष्ठोमयेनाष्टसङ्घयया । अरिवगै मुनिश्रेष्ठ संमुखे संस्थिते सति ॥ २०५ ।। क्रोधाच्चैव वधोद्युक्ते एकाकी यदि तिष्ठति । जपमानस्तु वे सम्यक् संकल्प्य मनसा महत् ॥ २०६॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy