SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाझ्यसंहिता [प. २७ क्षुभ्यन्ति मदनाच सकामासु च का कथा ॥ १६४ ॥ [अनुचरमुद्रा ] वक्ष्येऽथानुचराणां तु षोडशानां समासतः। द्विजैरमुद्रां(?)सामान्यां सनिधीकरणे शुभाम् ॥ १६५ ॥ पृष्ठलमो करौ कृत्वा मोक्षयेचदनन्तरम् । प्रादेशिनीयुगं चैव कन्यासायुगलं तथा ॥ १६६ ॥ अधोमुखं तु सुस्पष्टं ताभ्यां मध्यान्महामुने । कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीद्वयम् ।। १६७ ॥ मध्यमानामिकानां तु युग्मं युग्मं तु धारयेत् । एकलन नखोद्देशाधावत्पर्व तु मध्यमम् ॥ १६८ ॥ ऊर्ध्ववकं मुनिश्रेष्ठ समेन धरणेन तु । सुस्पष्टौ लम्बमानौ च अदुष्ठौ चाप्यधोमुखौ ॥ १६९ ॥ परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा। स्वमन्त्रसंयुतां चैव पूजाकाले प्रदर्शयेत ॥ १७० ॥ चतुर्भुजानुकारा' च (?) सर्वेषां सिद्धिकामदा । एवं मुद्रागणं दत्वा जप्त्वा च तदनन्तरम् ।। १७१ ॥ [होमादिविधानम् ] होमं तदनु वै कुर्यात्तिलैः सिद्धार्थकान्वितैः । सकुडमघृतक्षीरसंप्लुतैस्तण्डुलादिभिः ॥ १७२ ।। ततो नियममाश्रित्य कृत्वा तदनु नारद । देवीरूपं स्वमात्मानं भावनाप्यु (घु ? ) पचारतः ॥ १७३ ॥ प्रयायाद्विजनस्थान प्रौढयुक् स्वासनान्वितः । जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती ॥१७४ ।। क्षीरमूलफलाहारो देशकालवशात्तथा । अयाचितैकभिक्षाशी तदभावाच नारद ॥ १७५ ।। स्वशिष्यसाधितं चानं मन्नपूतमसैन्धवम् । तैलमांसविनिर्मुक्तं सन्ध्याकालेऽप्युपस्थिते ॥ १७६ ॥ अतृप्तमपि भुञ्जीत भावितं मधुसर्पिषा । जपान्ते विधिवन्मवी होमं कुर्यात्मयत्नतः ॥ १७७॥ In A 2प्रोडA For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy