________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५. २७]
शक्तिमन्त्रसाधनम् हृदयान्तर्गतं चेष्ट्वा बाह्यतश्चावतार्य च ॥ १५१ ॥
[ बाह्ययागविधिः] मन्त्रोत्सङ्गगता न्यस्याः प्राग्वच्चाङ्गादयोऽखिलाः।
[मुद्राविधानम् ] प्रपूज्य विधिवद्देवीं स्वां मुद्रां दर्शयेत्ततः ।। १५२ ॥ मागुक्तानां चतुर्णा तु भिन्नानामपि 'सा स्मृता । सर्वासां देवतानां च "मुद्रासंघर्षसङ्गिकम् ॥ १५३ ॥ मूलमन्त्रोदितं विद्धि देवताङ्गैः समन्वितम् । साधारणं सखीनां च षोडशानां तु नारद ॥ १५४ ॥ स्वमन्त्रयोजितामेकां मुद्रामप्यवधारय ।
[महायोनिमुद्रा ] संमुखौ तु करौ कृत्वा तथा वै संप्रसारितौ ॥ १५५ ॥ कनिष्ठानामिकाभ्यां वै युगलं युगलं द्विज । मेलयेन्नखदेशाच यथा स्यादेकपिण्डवत् ॥ १५६ ॥ अङ्गुलीभिश्च तिसृभिः पाणिमध्ये निराश्रयम् । अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ॥ १५७ ॥ अगुलीनां चतसृणां विश्रान्तौ चोदरावधि । सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ॥ १५८ ॥ प्रसार्य चाग्रतो लग्ने मध्यमे द्वे महामुने । नीता सा जन्मभूमेस्तु समारभ्य करद्वयम् ॥ १५९ ॥ कुर्याचैवातिसंलग्नं मणिबन्धावसानतः । ईषदस्पृष्टमूलेन मणिबन्धं करद्वयात् ।। १६० ॥ कुर्याद्विकसितं चैव मुद्रैषा मुनिसत्तम । महायोन्यभिधाना च त्रिलोकजननी पुरा ॥ १६१ ॥ वशीकुर्याजगत्सर्व कामतो यदि योजयेत् । अत्रानुष्ठानसक्ता स्त्री बध्वा दुरात्मदर्शयेत् ॥ १६२ ॥ मुनीनां गतसङ्गानां क्षोभमायान्ति ते क्षणात ।। पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ १६३ ॥
निवृत्तकामधर्मासु अबलास्वथवा मुने । 1 ता: A 2 सड्कार्पसातिम् A
For Private and Personal Use Only