________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९१
जयाल्यसंहिता
[प. २६
सूक्ष्मापिष्टां तु तां कृत्वा आलोज्य मधुरैत्रिभिः । एकादश्यां समभ्ययं मण्डले मन्त्रनायकम् ॥ ६८॥ तत्राधिवासयेत्तां तु गुलिका यन्त्रसंपुटे । सितार्कस्य विधानेन द्वादश्यां तु जपेत्ततः ॥ ६९ ॥ दशायुतं तु तन्मन्त्री ततः सिद्धा तु सा भवेत् । तया करस्थया मन्त्री विधिवद्गगनान्तरे ॥ ७० ॥ पाताले वा महीपृष्ठे लोकपालपुरेषु च । चक्रपाणिर्यथा विष्णुरधृष्यः सर्वदैवतैः ॥ ७१ ॥ जायते साधकेन्द्रस्तु मन्त्रस्यास्य प्रभावतः ।
[रसायनादिसाधनम् ] ब्राह्मणं क्षत्रियं वाऽपि निर्बणं लक्षणैर्युतम् ॥ ७२ ॥ युवानमेकं दिवसं संस्थितं तु समानयेत् । शून्ये गृहे समावेश्य स्नापयेदयेत्ततः ।। ७३ ॥ यथा विधानतो मन्त्री मन्त्रं संपूज्य मण्डले । उपविष्टं 'शवं कृत्वा मन्त्रं तस्याग्रतो जपेत् ॥ ७४ ॥ ताडयेत्सर्षपाणां तु शतेनाष्टोत्तरेण तु । ततो वेगात्समुत्थाय ब्रवीति प्रणतो वचः ॥७५ ॥ किं करोमि तवाद्याहं ममाज्ञा संप्रदीयताम् । पादमूळे रसं सिद्धं रसायनमपि द्विज ॥ ७ ॥ यच्चान्यन्मनसोऽभीष्टं तद्ददात्यविकल्पतः।
[यक्षिणीसाधनम्] कौशेयवस्त्रमानीय लिखेत्तत्र च यक्षिणीम् ॥ ७७ ॥ सर्वाभरणसंयुक्तां मुरूपां मनसेप्सिताम् । यथोक्तेन विधानेन मन्त्रं संपूज्य पूर्ववत् ॥ ७८ ॥ उपोषितश्चार्धरात्रे दद्याडूपं सगुग्गुलुम् । सप्ताहमेवं कुर्वीत जपेच्चाप्ययुतं सदा ॥ ७९ ॥ सप्तमे ह्यधेरात्रे तु सशद्धः कम्पते पटः।
प्रत्यक्षमास्ते विप्रेन्द्र रूपैश्वर्येण संयुता ॥ ८०॥ 1 वशं A
For Private and Personal Use Only