________________
Shri Mahavir Jain Aradhana Kendra
५. २४ ]
३५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संस्कारराख्यानम्
[ यतिधर्शश्रयाणां दाहे विशेषः ] यतिधर्माश्रयाणां तु कर्मसन्यासिनां च वै । दाहमात्रं तु विहितं मन्त्रपूजाविवर्जितम् ॥ ७५ ॥ [ परोक्षतो मृतानां संस्कारविधानप्रकार ः ] परोक्षतो विपन्नानां विधानमधुनोच्यते । येन याति पदं विष्णोः पदं योऽन्यतरस्थितः ।। ७६ ।। यदैव दीक्षितस्तिष्ठेच्छासनेऽस्मिन्मयोदिते । तदैवतं मुनिश्रेष्ठ तैः पदं विमलं मम ॥ ७७ ॥ किं तु ये दीक्षिताः पूर्व न निर्व्यूढास्सदाऽर्चने । म्रियन्ते चाकृतार्थाश्च समयज्ञास्तु पुत्रकाः ॥ ७८ ॥ ते स्वकर्मवशं यान्ति किञ्चित्स्थानमशाश्वतम् । भूयस्तस्माच्चिरेणैव केनचिद्विग्रहात्मना ॥ ७९ ॥ काले शुभे शुभे देशे उत्पद्यन्तेऽशुभेऽथवा । पुण्यं कुर्वन्ति वा पापं देशे काले तयोर्वशात् ॥ ८० ॥ शुभेन कर्मणा स्वर्गमशुभेनाप्नुवन्त्यधः । एवमस्थितिमाप्नोति उपसंहृत्य दीक्षितः ॥ ८१ ॥ मृतश्वापि परोक्षे तु यदा वै गुरुणा तदा । कृपात्मना समर्थेन कार्यमुद्धरणं महत् ॥ ८२ ॥ शरीरधर्मसंस्थेन यथा तदवधारय । विधिवन्मरणं ज्ञात्वा पुरा भक्तस्य कस्यचित् ॥ ८३ ॥ स्वकाह्निकावसाने तु यजेदर्चादिषु प्रभुम् । विशेषविहितेनैव कर्मणा होमपश्चिमम् ॥ ८४ ॥ श्वेतां मृदमथालोड्य पञ्चगव्येन चाम्भसा । द्वादशाङ्गुलमात्रं तु मूर्ति कृत्वा तदाकृतिम् ।। ८५ ।। आपादाच्चूलिकान्तं च सर्वाङ्गावयवान्विताम् । पलाशाश्वत्थवल्कोत्थदारुणा पल्लवेन वा ॥ ८६ ॥ तामग्नेः कुण्डदेशस्थां कृत्वा यन्त्रकृतां पुरा । प्रणवेन तु सास्त्रेण प्रोक्षयेत्सप्तधाऽम्बुना ॥ ८७ ॥ अर्घ्यपात्रोद्धृतेनैव त्रिधाऽथ द्वादशात्मना ।
For Private and Personal Use Only
२७३