SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २३] श्राद्धविधानम् __ २६३ मन्त्रेशमुपसंहृत्य पीठपिण्डाग्निमध्यगम् । विधिनाऽनेन वै कुर्यान्मासं मासं महामुने ॥ १०८ ॥ [अथ प्रेतत्वनिवर्तकमाब्दिकश्राद्धम् ] वत्सरे चैव निष्पन्ने मासे चैव त्रयोदशे । प्रेतत्वस्योपशान्त्यर्थ पितृश्राद्धं समाचरेत् ॥ ॥ १०९ ॥ स्नानाचं होमपर्यन्तं कुर्यादादौ द्विजाह्निकम् । संस्कृतेऽनौ तु सिद्धेऽनौ घृतक्षीरमधुप्लुते ॥ ११०॥ आहूय भगवद्भक्तानाचार्याश्च क्रियापरान् । चतुरोदङ्मुखान् न्यस्य पीठन्यासक्रमेण तु ॥१११ ॥ द्वावन्यौ पूर्ववक्रौ च विनिवेश्यासनद्वये । चतुर्णामनिरुद्धाद्यैर्मन्त्रासं समाचरेत् ।। ११२ ।। मूलीयमङ्गषदं तु ह्येकैकस्याथ विन्यसेत् ।। आपादान्मूर्धपर्यन्तं द्वाभ्यामस्त्रं तु देहगम् ॥ ११३ ।। जातियुक्तं तदेवास्त्रं स्वसंज्ञापरिभूषितम् । ताभ्यां षडङ्गन्यासार्थ कृत्वा देहे करे न्यसेत् ।। ११४ ॥ यदर्थ क्रियते श्राद्धं संज्ञा तस्यानिरुद्धकी । पितुः संज्ञां च विन्यस्य प्रद्युम्नस्यामितात्मनः ॥ ११५ ॥ सङ्कर्षणं तु मन्त्रेशं कल्पयेच पितामहम् । प्रपितामहसंज्ञं तु वासुदेवं प्रकल्पयेत् ॥ ११६ ॥ विधिनाथाप्ययाख्येन अर्घ्यपुष्पादिभिर्यजेत् । प्रार्थयित्वा ततोऽनुज्ञां मन्त्रेशं प्रतिमागतम् ॥ ११७ ॥ विभवेनार्चयित्वा तु स्नानायेन महामते । चन्दनाभरणस्रग्भिर्वस्त्रेधुपैस्तथाऽञ्जनैः ॥ ११८ ॥ दीपेन मधुपर्केण परमानेन मात्रया। स्तोत्रमन्त्रनमस्कारैः सुमनोभिरनन्तरम् ॥ ११९ ॥ तमेवानलमध्ये तु सन्निधीकृत्य पूजयेत् । सतोऽस्त्रमन्त्रजप्तेषु पात्रेषूद्धृत्य भक्तितः ।। १२० ।। पितृसन्धानसिद्ध्यर्थ नैवेद्यान्नचतुष्टयम् । व्यञ्जनादिसमायुक्तं मध्वाज्यतिलभावितम् ॥ १२१॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy