________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २३]
श्राद्धविधानम्
व्यअनादिफलोपेतं यत्किञ्चित्साधितं पुरा । स्वधान्वितेन मूलेन मूर्तिना भूषितेन तु ॥५५॥ पात्रं पूर्णेन्दुवद्धयायेत्तन्मध्ये तं तु संस्मरेत् । मन्त्रेशममृताकारं तृप्तिसंजननं महत् ।। ५६ ।।
[ भुञ्जानेषु पितृषु जपध्यानविधानम् ] . भुञ्जानेषु तथैतेषु दश दिश्वस्त्रमास्मरेत् । जपेत् ध्यायेच्च मन्त्रेशं नारसिझं महामुने ॥ ५७॥
[भोजनान्ते दक्षिणादानम् ] भक्त्या संपीणयद्देवं दद्याच्छक्त्या च दक्षिणाम् । नैवेद्यमपि सन्धार्य तावदेव हि नारद ॥५८ ॥ यावद्भुजिक्रियान्तस्तु तदन्ते प्रतिपाद्य च ।
[ शेषान्नसंविभजनम् ] खं स्वमेव हि सर्वस्य अन्नस्याभ्यागतस्य च ॥ ५९॥ तेषु वा संविभज्यादौ एकं तत्रैव वर्जयेत् । यत्पितामहनाम्ना तु हरेः पूर्व निवेदितम् ॥६०॥ तद्गृहाश्रमिणो दधात् जायायां सुतद्धये । अथ पूर्णाहुतिं दद्यादेवदेवं विसृज्य च ॥६१॥ उपसंहृत्य चैवाग्रे........................... ।
नारदःकव्यं श्राद्धविधानं तु इदं ज्ञातं मया विभो ॥३२॥ और्ध्वदेहिकसंज्ञं तु ज्ञातुमिच्छामि वै प्रभो।
श्रीभगवान् संस्कृत्य वैष्णवं प्रेतं विधिदृष्टेन कर्मणा ॥ ६३ ॥
[प्रेतश्राद्धविधानम् ]
[ तत्र प्रथमेऽहनि कर्तव्यविधिः] ततस्तस्य क्रिया कार्या स्वाश्रमे वा जलाशये । दिक् विदिक सिह्ममन्त्रं तु सास्त्रं न्यस्य पुरा ततः॥६४ ॥ तदन्तरे कुटिं ध्यायेदर्ममत्रं स्वमुद्रया । कृतन्यासं ततोऽस्त्रेण मोक्षयेदस्त्रवारिणा ॥६५॥
For Private and Personal Use Only