________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
जयाख्यसंहिता
[ प. २२
द्विजातीनां चतुर्णा तु अधिकारं ददत्यपि ॥२८॥ शुद्धे तु भगवन्मार्गे सत्त्वस्थास्सात्वताश्च ते । असंकीर्णा द्विजश्रेष्ठ ब्रह्मरुद्रेन्द्रपूर्वकैः ॥ २९ ॥ विशेषदेवतायागैरमुख्यातिनिर्मलैः । वासुदेवं विना [ चातुरात्म्यं त ] त्प्रभवादिना ॥ ३०॥ संन्यासकर्म (कर्मसंन्यास ?) योगेन फलसंपद्विनैव हि । वेदान्तविधि(न्तार्थवि?)शेषज्ञाश्चतुर्णामुपरि स्थिताः ॥ ३१ ॥ + मोक्षार्थमपि विप्रेन्द्र स्थितास्तेऽञ्जलिकारिणः। प्रतिभात्यधिकं येषां यत्स्यात्संस्थापने हरेः ।। ३२ ॥ धनं समायं यत्नेन प्रतिष्ठामाचरन्ति ये । वैष्णवीं भक्तियुत्केन चेतसा कीर्तयन्ति च ॥३३॥ भगवद्गाविनो विषा इत्याप्सास्समुदाहनाः।
[अनाप्तलक्षणम् ] वर्णधर्ममनुज्झित्य ह्याप्तादिष्टेन कर्मणा ॥ ३४ ॥ यजन्ति श्रद्धया देवमनाप्तास्ते प्रकीर्तिताः।
[ आरम्भिलक्षणम् ] विना तेनार्थसिध्यर्थ विश्वात्मानं यजन्ति ये ॥ ३५ ॥ आरम्भिणस्ते बोद्धव्या वैष्णवा वाहाणादयः ।
[संप्रवर्तिलक्षणम् ] श्रद्धया ये प्रवर्तन्ते स्वयं संपूजने हरेः ।। ३६ ।। अमार्गेण तु विप्रेन्द्र विद्धि तान्संप्रवर्तिनः । लिङ्गैरेतैस्तु बोद्धव्यास्सदैवाप्तादयो मुने ॥ ३७॥ अथातो योगिपूर्वाणां वैष्णवानां समासतः । विमादिमौद्गलान्तानां लक्षणं चावधारय ॥ ३८ ॥
[योगिनां लक्षणम् ] शय्यासनपथिस्थश्च हृद्गतं संस्मरेत्पभुम् ।
निष्कलादिप्रभेदेन अथवायतने हरेः ॥ ३९ ॥ + अञ्जलिकारिलक्षणपरस्य मोक्षार्थमपी 'त्यस्य · आरम्भिणस्ते' बोद्धव्या वैष्णवा ब्राह्मणादय इत्यस्यानन्तरं पाठो युक्तः । अत्र त्वसङ्गतः ।
For Private and Personal Use Only