________________
Shri Mahavir Jain Aradhana Kendra
२४८
www.kobatirth.org
जयाख्यसंहिता
Acharya Shri Kailassagarsuri Gyanmandir
अप्रतिग्राहकाणां च कणभिक्षाभिवर्तिनाम् ॥ ३ ॥ बाह्याभ्यन्तरतुल्यानां श्रद्धासंयमसेविनाम् । नारायणैकनिष्ठानां येsस्मिन्जाता महाकुले ॥ ४ ॥ ऊनाधिकेन विप्रेन्द्र कर्मणाऽनुष्ठितेन च । कालहासवशाञ्चैव वैषम्यमुपयान्ति च ॥ ५ ॥ [ यतीनां लक्षणम् ]
संस्कृताश्च निषेकाद्यैः पित्रा वा गुरुणा त्वनु । स्वयं विवेकभावस्था ब्रह्मचारिगुणैर्युताः ॥ ६ ॥ सर्वभूतस्थितं विष्णुं पश्यन्त्यमलया धिया । सर्वे भूतास्तदन्तस्था भावयन्तीति सर्वदा ॥ ७ ॥ कर्मणा मनसा वाचा यजन्त्येकमधोक्षजम् । आद्यद्विजेन्द्रवेश्मभ्यस्तदभावान्महामते ॥ ८ ॥ धर्मरतविप्रेभ्यो नित्यं चायाचितेन तु । सिद्धानेन च 'वर्तन्तो मुण्डितश्मश्रुमस्तकाः ॥ ९ ॥ काषायवासोधर्त्तारो दण्डमात्रपरिग्रहाः ।
से विभा यतयः शुद्धाः सत्वस्था वैष्णवाः स्मृताः ॥ १० ॥ [ एकान्तिलक्षणम् ] भ्रान्त्वा मिक्षां च षट्कर्मनिरतेभ्यस्तु सत्कृताम् । अपरिग्रहवान्यो वै तया संपूजयेत्प्रभुम् ॥ ११ ॥ पुमान्गोप्तारमव्यक्तमष्टाङ्गविधिना महत् । गुणिना सह शिष्येण वसत्येको विचारधीः ॥ १२ ॥ कुक्रमेणाधिकारी स एकान्तीह वैष्णवः ।
[ वैखानसलक्षणम् ] यः परिग्रहवान्विमः पूजयेत्परमेश्वरम् ॥ १३ ॥ याचितेन द्विजेंद्राच्च प्राप्तेनायाचितेन तु । घनेन क्षत्रियाद्वैश्यात्कुटुम्बमपि पालयन् ॥ १४ ॥ विद्धि वैखानसः सोऽपि जटी छत्री सिताम्बरः । [ कर्मसात्त्वतस्य लक्षणम् ] मुख्यत्वेन क्रियार्थे यः कुटुंबस्य च पालने ॥ १५ ॥
1 वर्तन्ते A.
For Private and Personal Use Only
[ १.२२