________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २१-२२]
वैष्णवाचारलक्षणम्
नमो नमस्ततः स्वाहा मन्त्रोऽयं त्रिदशार्चितः । शतानि पद् च वर्णानां वर्णा द्वादश च द्विज ॥ २२५ ।। अर्धाक्षराणि वै पञ्च इत्येतत्कथितं मुने ।
[अस्य महामन्त्रस्य प्रशंसा ] मन्त्रोऽयं सूचितः प्राग्वै रक्षणीयः प्रयत्नतः ॥ २२६ ॥ छिन्नानामपि भिन्नानां मन्त्राणां चारुरूपिणाम । एषा(?) मन्त्रवरः श्रेष्ठस्सर्वेषामपि पूरयेत् ॥ २२७ ॥ तेजसाऽपि च वीर्येण सौम्यत्वेन सदैव वा। समस्तदोषशमनो विघ्नविध्वंसकृन्महान् ॥ २२८ ॥ मन्त्रोऽयं मुनिशार्दूल गोपनीयः प्रयत्नतः । सामान्यं साधकानां च सच्छासननिषेविणाम् ।। २२९ ॥ अनेकवक्त्रनयनमनेकानिकरान्वितम् । अनेकाद्भुतदातारमने काभरणभूषितम् ।। २३० ॥ अनेकगन्धपुष्पान्यमनेकायुधधारिणम् । अनेकदीप्सनयनमनेकफल भूषितम् ।। २३१ ॥ अनेकमन्त्रकोटीभिस्संस्मरेत्सेवितं सदा । यस्तु नैमित्तिके यागे नित्ये बानन्यमानसः ॥ २३२ ॥
सोऽचिरात्माप्नुयात् सिद्धीनोवसीदति कर्हिचित् । इति श्रीपाञ्चरात्रे जयाख्यसहितायां पवित्रकविधानं नामैकविंशः पटलः ।
अथ वैष्णवाचारलक्षणं नाम द्वाविंशः पटलः ।
नारदः[ यतिप्रभृतीनां वैष्णवानां स्वरूपप्रश्नः ] श्रोतुमिच्छामि भगवन्वैष्णवानां च लक्षणम् । सर्वेषां यतिपूर्वाणामाचारं च विशेषतः ॥१॥ दानं प्रदानं द्विविधं येषामुक्तं त्वया फलम् । तानहं तु कथं नाम वेअिवै लक्षणं विना ॥२॥
श्रीभगवान्[ भागवतधर्मैकनिष्ठानां साम्येऽपि भेदे कारणम् ] भगवद्धर्मतन्त्राणां पञ्चकालनिषेविणाम् ।
For Private and Personal Use Only