________________
Shri Mahavir Jain Aradhana Kendra
प. २१ ]
www.kobatirth.org
पवित्रविधानम्
Acharya Shri Kailassagarsuri Gyanmandir
[ तेषां पवित्राणां व्यासमानग्रन्धिसख्यादिविधानम् ] व्यासादसमैः (?) कुर्याद्धाराकारं च तन्तुभिः ॥ १३ ॥ शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् । त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ १४ ॥ पत्रिंशद्धन्धिकं चायं द्वितीयं द्विगुणं स्मृतम् । तृतीयं त्रिगुणं विम
[ प्रवित्रप्रन्धीनां रञ्जनादिविधानम् ] ग्रन्धि वैकुङ्कुमेन तु ॥ १५॥
रञ्जयेच्चन्दनाद्येन यथा शोभानुरूपतः । ग्रन्धियुक्तेन तुल्येन मृदुना सुसितेन तु ।। १६ ।। पूरयेद्ग्रन्धयोर्मध्ये शङ्खाकारं यथा भवेत् । मण्डले मन्त्रमूर्तीनां पूजनार्थ तु नारद ॥ १७ ॥ व्यासमानं तु कथितं पवित्राणां च सर्वदा । [ विम्बस्य शिरः प्रभृत्यवयवभेदेन पवित्राणामाकृतिभेदमान भेद विधानम् ] प्रतिष्ठितस्य बिम्बस्य परादौ ( ? ) धातुजस्य वा ॥ १८ ॥ मालाकृतिं च शिरसि यथेच्छग्रन्धिपूरकैः । द्वितीयमंसयोर्यावलम्बितं जानुमण्डले ।। १९ ।। मूर्ध्नः पादावधिर्यावन्त्रितीयमतिविस्तृतम् । [ पीठपवित्रप्रमाणविधानम् ] पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ॥ २० ॥ [ प्रतिसराणां व्यासानियमः ] बिम्बप्रतिसराणां च व्यासश्वानियतः स्मृतः । सूत्रमानं च पूर्वोक्तं द्विगुणं सम्भवे सति ॥ २१ ॥ त्रिगुणं वा मुनिश्रेष्ठ आलभेत्पूरयेत्ततः । त्र्यङ्गुलान्तरिता देयास्सर्वेषां ग्रन्धयः समाः ॥ २२ ॥ सङ्ख्यानेन विना सम्यङ्मातुलुङ्गोपमाः शुभाः ।
[ कुम्भादिपवित्र निर्माणप्रकारविधानम् ] कुम्भोत्तमाभ्यामग्रे तु विद्यापीठस्य चैवहि ॥ २३ ॥
1 शमै: CL.
For Private and Personal Use Only
२३१