________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. २०]
प्रतिष्ठाविधानम्
१९९
श्रीमगवान्
[ अथ पटे बिम्बविधानम् ] पटे बिम्बविधानं तु सांप्रतं शृणु नारद । सर्वसिद्धिकरं रम्यं निर्दोष नातिविस्तरम् ॥ ३॥
[पटमानादि] द्विहस्तं चतुरस्त्रं तु हस्तमात्रं तु वा पटम् । कार्पासमथ वा क्षौमं नवं शुक्लमनाहतम् ॥ ३ ॥
[पटस्य चित्रकरस्य च संस्कारः] प्रक्षाल्य बहुशोऽस्त्रेण चित्रनं स्नाप्य वै द्विज । दाहोत्पादनयुक्त्याऽथ सपटं संस्मरेच्च तं ॥४॥
[आसनपदम् ] संसूत्र्य कमलं तत्र अष्टपत्रं सकर्णिकम् ।
[गृहार्चामानम् ] कर्णिकामध्यसंस्थं तु मोच्छायं द्वादशाङ्गुळम् ॥ ५ ॥ त्रिविंशत्यालान्तं च विम्बं लिख्यं मुलक्षणम् ।
[ लक्ष्म्यादिपरिवारोपेतस्य ग्राह्यता] लक्ष्म्यादिपरिवाराढ्यं लोकेशास्त्रसमावृतम् ॥ ६ ॥ संगृह्याधजनार्थ तु
[गृहादन्यत्र मानाधिक्यम् ]
तत्यमाणं द्विजोलतः। मानं कुर्याद्गृहाबाह्य स्थाने मासादपूर्वके ॥ ७॥ [ गृहार्चासु लेख्यचित्रबिम्बस्य हस्ताधिकमानत्वेऽप्यदोषता ] हस्ताधिकेपि च कृते चित्रविम्बे गृहस्थिते । न दोषः साधकानां तु दारुमृच्छैलजैविना ॥ ८॥
[अथ बिम्बस्यावयवमानविधानम् ] बिम्बमानं तु नवधा पोच्छ्यात्संविभज्य च । भागं भागं तु तं भूयो भजेद्द्वादशधा मुने ॥ ९॥ तदगुलं तु बिम्बस्य तेनाङ्गावयवास्ततः । दर्शनीयाश्च गुरुणा शिल्पिकस्य समासतः ॥१०॥
For Private and Personal Use Only