________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९
मन्त्रसिद्धिचिह्नाख्यानम्
१९७
समाराधनकामस्य (सक्तस्य) प्रथमं वत्सरत्रयम् । जायन्ते बहुशो विना नियमस्थस्य नारद ॥ १४ ॥
नोद्वेगं साधको याति कर्मणा मनसा यदि । [ विघ्नैरनुपहतचित्तस्य तस्य चतुर्थादिवत्सरेषु बहुशिष्योपसेव्यतादिलक्षणशुमप्राप्तिः ]
तृतीयाद्वत्सरार्श्व शुभं तस्य प्रजायते ॥ १५ ॥ सेव्यते बहुभिः शिष्यैरहर्निशमतन्द्रितैः । साधकाचोपसेवन्ते किङ्करत्वेन भक्तितः ॥ १६ ॥ निवेदयन्ति सर्वस्वं साधकस्य महात्मनः ।
[सप्तमादारभ्य राजाद्युपसेव्यता ] सप्तमावत्सरादूर्ध्व राजानश्च महीभृतः ॥१७॥ पाथेयन्त्युपरोधेन गर्विताश्चाभिमानतः । प्रसादः क्रियतां नाथ ममोद्धारणकारणम् ॥ १८ ॥ प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च । अतस्ते मुनिशार्दूल निष्ठुरं वक्तुमक्षमम् ॥ १९ ।।
[ दशमादारभ्य नानाश्चर्यदर्शनम् ] नवमाद्वत्सरार्ध्वं स्वयं पश्यति मन्त्रवित् । नानाश्चर्याणि हृदये हासानन्दमयानि तु ॥ २० ॥ सदाऽऽह्लादपदान्याशु प्रत्यक्षेण बहिस्तथा । जड आस्ते क्षणं विष क्षणमास्ते प्रहर्षितः ।। २१ ।। क्षणं दुन्दुभिनिर्घोषं श्रृणुयादन्तरिक्षतः । क्षणं च मधुरं वाद्यं नानारीतिसमन्वितम् ॥ २२ ॥ क्षणमाजिघ्रते गन्धान कर्पूरमृगनाभिजान् । क्षणमुत्पतमानं च पश्यत्यात्मानमात्मना ॥ २३ ॥ चन्द्राककिरणाकीर्ण क्षणमालोकयेनमः ।। गवाश्वगजनादाश्व श्रृणुयाच क्षणं द्विज ॥ २४ ॥ निर्झरस्याम्बुसंक्षोभं क्षणमाकर्णयेन्महत् । विद्युज्वालाकुलं पश्येत् क्षणं क्षितितलं द्विज ॥ २५ ॥ तोयपूर्ण क्षणं पश्येत्समग्रं क्षितिमण्डलम् । ऋग्युजुस्सामघोषांश्च आकर्णयतिच क्षणम् ॥ २६ ॥ तारकाकारिणश्चित्रान्योगिनो नभसि स्थितान् ।
For Private and Personal Use Only