________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
जयाख्यसंहिता
[प. १९ पठनं श्रवणं कुर्याच्छास्वाध्ययनमाचरेत् । अतन्द्रितश्च सततं विना वै द्वादशीद्वयम् ॥ ३१४ ॥ पतिपत्पौर्णमास्यौ च साष्टमी च चतुर्दशीम् । ग्रहोपरागसंक्रान्ति विना चाथा(ना ?)गते गृहम् ॥ ३१५ ॥ गुरौ गुरुभ्रातरि वा यतिसड्ढे तु वैष्णवै । रथ्याचत्वरमार्गेषु सन्निधावप्यदीक्षिते ॥ ३१६ ॥ तथाप्यवैष्णवे मूर्खे पूजया च विना मुने । शास्त्रव्याख्या न कतेव्या न श्रोतव्या शुभेप्सुना ।। ३१७ ॥ तदारम्भे गुरोः पूजा मध्ये चैव विशेषतः । अन्ते विशेषयागं च कीडनं च महोत्सवम् ॥ ३१८ ॥ फलमूलं तथा पुष्पं गन्धोऽप्यनं नवं च यत् । तत्तदादौ गुरौ मन्त्रे विनिवेद्योपयोजयेत् ॥ ३१९ ॥ सामान्यसिद्धौ रक्षार्थ परेषां न कदाचन । प्रयुञ्जीत स्वमनं च आपत्स्वपि च नाचरेत् ॥ ३२० ॥ गारुडं भूतकर्माऽपि लोकस्यार्थेन नारद । कृपया परया कुर्यादनाथेष्वथ संसदि ॥ ३२१ ॥ सूयेसोमान्तरस्थं च गवाश्वत्थाग्निमध्यगम् । भावयेद्भगवद्विष्णुं गुरुविषशरीरगम् ॥ ३२२ ॥ ज्ञेयो माता पिता विष्णु यो विष्णुः मियोऽतिथिः । ज्ञेयो विष्ण्वाश्रयी विष्णुरात्मा ज्ञेयोथ विष्णुवत् ॥ ३२३ ॥ यत्र तत्र परीवादो मात्सर्याच्छूयते गुरोः । तत्र तत्र न वस्तव्यं प्रयायात्संस्मरेद्धरिम् ॥ ३२४ ॥ यैः कृता च गुरोनिन्दा विभोः शास्त्रस्य नारद । तैनैव सह वस्तव्यं न वक्तव्यं कदाचन ॥ ३२५ ।। कमेणा मनसा वाचा न हिंस्यात्परदारकान् । प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः ॥ ३२६ ॥ प्रभाते च प्रवासे च स्वमन्त्रं बहुशः स्मरेत् । स्वप्ने वाऽक्षसमक्षं वा आश्चर्यमतिहर्षदम् ॥ ३२७ ॥ अकस्मादपि जायेत नाख्यातव्यं गुरोर्विना । इत्येतत्समयौघं तु विद्धि साधारणं द्विज ॥ ३२८ ॥
For Private and Personal Use Only