________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९]
दीक्षाविधानम् मन्त्ररूपं परं ध्यातं साकारं संस्मरेत्पुनः । पूजयित्वाऽध्यपुष्पाथैः समयान् श्रावयेद्गुरुः ॥ ३०० ॥
[अथ समयोपदोशः] स्वमन्त्रो नोपदेष्टव्यो न वक्तव्यश्च संसदि । गोपनीयं स्वशास्त्रं च रक्षणीयं शरीरवत् ॥ ३०१ ॥ यथा यथा यत्र तत्र न गृह्णीयाच केवलम् । अभक्या तु गुरोनाम गृह्णीयात्मयतात्मनः (ना?) ॥ ३०२॥ प्रणवग्रथितो (तं ? ) नाम विष्णुशब्दमनन्तरम् । पादशब्दसमेतं तु नतमूर्धा कृताञ्जलिः ॥ ३०३ ॥ न तमाज्ञापयेन्मोहात्तच्छायां तु न लड्डन्येत् । आसनं शयनं यानं तदीयं तु न चाक्रमेत् ॥ ३०४ ।। गुर्वनिमन्त्रशास्त्राणां भक्तिरव्यभिचारिणी। प्रभाते मन्त्रजापस्तु पूजनं सततं विभोः ॥ ३०५॥ प्रक्षीणदिनवेलायां जपेन्मन्त्रं स्वशक्तितः । द्वादश्यां सितकृष्णायां परिपीडं समाचरेत् ॥ ३०६ ॥ नक्तमास्ते त्वसामर्थ्यादानपूजापुरस्सरम् । वैष्णवानां पराभक्तिराचार्याणां विशेषतः ॥ ३०७ ॥ पूजनं च यथाशक्ति तानापन्नांश्च पालयेत् । मुद्राक्षसूत्रे संरक्ष्ये स्वमन्त्रं न प्रकाशयेत् ।। ३०८ ॥ दूराच पादपतनं गुरोः पादाभिवन्दनम् । नोचासने हरेरग्रे उपवेश्यं कदाचन ॥ ३०९ ॥ न शङ्खपबचक्राके आसनेऽपि च नारद । नानिवेध हरेः किञ्चिद्भोक्तव्यं वा गुरोस्तथा ॥ ३१०॥ मनोपभुक्तिमयं च तथा यन्मन्त्रसंस्कृतम् । प्राप्तमायतनाद्विष्णोः प्रयतः शिरसोद्वहेत् ।। ३११ ॥ उदके निक्षिपेत्पश्चाद्भूमौ वै निपतेयदि । विशेषपूजनं कुर्यात्पक्षे मासेऽथ वत्सरे ॥ ३१२ ॥ द्वादश्यां वैष्णवैस्साई तत्रैव शुभजागरम् । कार्यायतनयात्रा वै तत्र दानं च शक्तितः ॥ ३१३ ।।
For Private and Personal Use Only