________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प. १९] दीक्षाविधानम्
१७७ तस्मादीक्षाक्रमेणैव तत्रोद्धृत्य पुनः क्षिपेत् । लयस्तत्रैव कर्तव्यो भोगार्थच शिशोस्तदा ॥ २७४ ॥
__[गुरुणा कर्तव्यो भावनाविशेषः] ईश्वराधारसंक्षस्तु स्वात्मवान्दीक्षितः शुचिः। ध्यायेन्निरक्षराकारं विश्वो विश्वात्मकस्त्वयं ॥ २७५ ॥ अनाधिनिधनं देवमच्युताच्युतविग्रहम् ।
[ भोगार्थपूर्णाहुतिप्रकारनिरूपणम् ] ध्यात्वा नारायणं पश्चात्मूलमनं विलोमतः ॥ २७६ ॥ परमामृतसंक्षुब्धरूपमोघं तु चामृतम् । मुश्चमानमनौपम्यमप्रतयंमतीन्द्रियम् ॥ २७७ ॥ शशिसूर्यप्रतीकाशं विसर्गेण तु बन्धभृत् । पूर्णाहुतिः प्रदातव्या वौषडन्तेन नारद ॥ २७८ ॥ एवं पूर्णाहुतिं दत्वा सम्भोगार्थमनन्तरम् ।
[मोक्षार्थपूर्णाहुतिप्रकारनिरूपणम् ] मोक्षार्थ पातयेदन्यां पूर्णा संपूर्णलक्षणाम् ॥ २७९ ॥ संशुद्धसंर्वतत्त्वं तु ईश्वरादूर्ध्ववर्तिनम् । अक्षरेण तु मन्त्रेण त्रिदैवत्यमिवाच्युतम् ॥ २८० ॥ ध्यात्वा तु सकलं शिष्यमात्मानं निष्ळलं तथा। प्राथमुद्यतं चाज्यं ध्यायेत्सकलनिष्कलम् ॥ २८१ ॥ शिष्यदेहं तथा कर्मभिन्नं भावनया पुरा । ततः घुचोऽनो( ग्रे ? ) सन्धाय द्वे एकीकरणेन तु ॥ २८२ ॥ निष्कलेन स्वरूपेण शिष्याज्ये तु यथा पुरा । कृत्वाऽऽचार्यस्वभावस्थं स्वचैतन्यं शनैः शनैः ॥ २८३ ॥ यावत्सुनिर्भरानन्दस्वानन्दपदमति वै । ततः स्वानन्दविश्रान्ते महानन्दातुलास्पदे ॥ २८४ ॥ षर्मिषद्गुणातीतं मन्त्रमुद्राक्रमोज्झितम् । स्वशक्तिवैभवं दिव्यं प्रतिभाव्याच्युतं गुरोः (?) ॥२८५॥ ततो विज्ञानशब्दात्मपर्यन्तं रूपमुज्वलम् । अनुच्चार्य (ध्याय ?) समुच्चार्य मनं सप्ताक्षरं द्विज ॥ २८६ ॥
1स्तथा Y.
For Private and Personal Use Only