________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयाख्यसंहिता
[प. १६ प्रधानं च ध्रुवोर्मध्ये स्वमन्त्रेण तु भावयेत् । सिन्दूरपुञ्जसङ्काशं होमयेत्तद्वदेव हि ॥ १६२ ॥ सितेन्दुरश्मिवर्णाभां तालुमध्ये धियं स्मरेत् । कुसुम्भरससङ्काशं खद्योतमिव खेचरम् ॥ १६३ ॥ तालुमूले त्वहङ्कारं तालुकर्णान्तरे ततः । राजोपलद्युति मुषंषः (माकृतेः ? ) कदम्बकुसुमोपमम् ॥ १६४॥ मनसचानुसन्धानं कुर्यात्सन्तर्प्य पूर्ववत् । कर्णोद्धृत्पद्मर्पयन्तं स्मरेत्पञ्चपदे समे ॥ १६५ ॥ श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्वलान् । स्वैः स्वैर्बीजैश्च पूर्वोक्तैर्ध्यात्वा सन्तर्प्य पूर्ववत् १६६ ॥ तत्स्थाना .... ...... .... स्पन्द (पद्म) स्थानाच नाभ्यन्तं माग्वत्पञ्चपदान्तरे । वागादीन्वै स्थितान् पञ्च बीजैः स्वैः पूर्ववत्स्मरेत् ॥ १६७ ॥ अनुक्रमेण चैकैकमुच्चार्य जुहुयान्यसेत् । आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्चके ॥ १६८ ।। शब्दतन्मात्रपूर्वाणि गन्धमात्रावसानतः । स्वैःस्वैगुणैश्च युक्तानि भास्वज्योतिःप्रभाणि तु ॥ १६९ ॥ उरुमूले तथा मध्ये बुद्धिदेशे(?)ततस्त्वधः । दण्डे मर्मावसाने तु(?)सर्वस्मिंश्चरणे क्रमात् ॥ १७० ॥ खवाय्वग्न्युदकक्ष्मान्तं चिन्तयेद्भूतपञ्चकम् । नि(नी?)रूपाञ्जनवर्णं तु संस्मरेद्वयोमगोलकम् ॥ २७१॥ वायव्यं नीलपीतञ्च तैजसं मधुपिङ्गलम् । मुक्ताफलनिभं चाप्यं रत्नपीतं तु पार्थिवम् ॥ १७२ ॥ सध्यानद्रष्टा चोङ्कारं बीजं तदनु वै नमः । तत्रैव काले होमार्थ बीजं प्रणवपूर्वकम् ।। १७३ ॥ तत्तत्सझं ततः स्वाहा संपाते त्वीदृशो विधिः ।
[संपातहोमः ? ] तुर्यातीतपदावस्थो गुरुः कुर्यादनुग्रहम् ॥ १७४ ॥ एकोचारेण शिष्यस्य क्रियामप्यपरित्यजन् ।
For Private and Personal Use Only