SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.१५] अग्निकार्यविधानम् [विष्वक्सेनविसर्जनम् ] स्वमन्त्रेण द्विजश्रेष्ठ क्षमस्वेति पदेन च । मुद्रासमन्वितेनाथ नभस्युत्पतितं स्मरेत् ॥ २४८ ॥ पूर्णेन कलशेनाथ अस्त्रजप्तेन नारद । क्षीराम्बुमधुराज्येन प्रापयेन्मण्डलं तु तत्(?) ॥ २४९ ॥ ततः कुण्डात्समुत्थाप्य विष्वक्सेनं यथा पुरा । [लोकपालादीनां विसर्जनप्रकारः] पूजयेल्लोकपालांश्च पुष्पायैस्तर्पयेत्ततः ॥ २५० ॥ एकाहुतिमदानेन शत्या वा बहुभिः पुनः । यथाविधि स्वमन्त्रेण पूजयित्वा विसर्जयेत ॥ २५१ ॥ सास्त्रान्सपरिवाराश्च स्व स्व स्थान क्रमेण तु । [अथ क्षेत्रपालादीनां घृतादिभिस्तर्पणक्रमः ] गत्वा कुण्डसमीपेऽथ क्षेत्रपालादयः क्रमात् ॥ २५२ ॥ आधारशक्तेरारभ्य पीठमन्त्राश्च सर्वशः । गणेशाद्याश्च सिद्धान्तास्तर्पणीया घृतादिकैः ।। २५३ ॥ सकृत्सकृत्स्वशक्त्या वा पूर्णा सर्वेष्वथ क्षिपेत् । पात्रस्थं कलशस्थं च मन्त्रतन्त्रावतारितम् ॥ २५४ ॥ क्रमेण चोपसंहृत्य घ्राणाग्रेण तु पूर्ववत् । [अथ वह्वेस्तर्पणप्रकारः ] स्वमन्त्रेण ततो वह्नि शक्तितस्तर्पयेविज ॥ २५५ ॥ अच्छिद्रकरणी पूर्णा पूर्णामन्त्रेण पातयेत् । कुण्डे पुष्पाञ्जलिं कृत्वा वह्निमन्त्रमनुस्मरन् ॥ २५६ ॥ समाघ्राय न्यसेत्कोष्ठे झवतारक्रमेण तु । [अथाग्नेः परिषेचनम् ] सुवन्तु तोयेनापूर्य कुण्डं बाह्ये प्रदक्षिणम् ॥ २५७ ।। कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया । [नैवेद्यादीनां तोये प्रक्षेपविधानम् ] नैवेद्यमुपसंहत्य वस्त्रालङ्कारवर्जितम् ॥ २५८ ॥ अगाधोदकमध्ये तु वहत्यधिविनिक्षिपेत् । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy