________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
जयाख्यसंहिता [स्वहृदयं प्रविष्टस्य परस्वरूपस्य भासाऽऽपादमस्तकं स्वदेहस्य व्याप्तत्वभावनम् ]
मन्त्रमुद्रासमेतेन पूरकेण तु नारद ॥ २३७॥ भासितं भावयेदेहं तेनापादाच्छिरोवधि । प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ॥ २३८ ।। विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ।
[विसर्जनानन्तरं दीक्षितेभ्यो नैवेद्यप्रदानम् ] एवं विसृज्य मन्त्रेशं लोकपालास्त्रवर्जितम् ।। २३९ ॥ दीक्षितानां द्विजानां च श्रद्धासंयमसेविनाम् । प्रदद्याद्विज नैवेद्यं शिष्याणां भावितात्मनाम् ॥ २४० ॥
[ मूलमन्त्राभ्यर्चने विनियुक्तानां पुष्पादीनां समाहरणम् ] वलमानस्य(?) मन्त्रस्य तुल्यकालं समाहरेत् । पुष्पाण्यत्रं च नैवेद्यं मूलमन्त्रोपयोजितम् ॥ २४१ ॥
[समाढतेन तेन द्रव्येण विष्वक्सेनाभ्यर्चनम् ] तेन भाण्डस्थितेनापि समाहूयाम्बरान्तरात् । विष्वक्सेनं यजेद्भक्त्या ध्वात्वा वै मण्डलान्तरे ॥ २४२ ॥ चतुर्भुजमुदाराङ्गं गदाशङ्खधरं विभुम् । नवाम्रपत्रसङ्काशं पिङ्गलश्मश्रुलोचनम् ॥ २४३ ॥ पीतवस्त्रं चतुर्दष्ट्र स्त्रमुद्राद्वितयान्वितम् । समभ्यर्च्य क्रमासाङ्गं मुद्रामस्याथ दर्शयेत् ॥ २४४ ।।
[अथ कुण्डे विन्यस्तस्य मन्त्रस्य पुष्पैः पूजनम् ] गत्वा कुण्डसमीपं तु मत्रं पुष्पैः प्रपूज्य च ।
[भस्मना तिलकधारणम् ] भस्मनाऽखाभितप्तेन ललाटे तिलकं शुभम् ॥ २४५ ॥
[ मण्डलस्थस्येव कुण्डस्थस्य मन्त्रस्योपसंहरणम् ] कृत्वा मण्ड(ल)वत्पश्चादुपसंहृत्य चात्मनि ।
[अथ विष्वक्सेनस्य कुण्डे सन्तर्पणक्रमः ] विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ॥ २४६ ॥ वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज । मण्डले पूजयित्वाऽथ कुर्यात्तस्य विसर्जनम् ॥ २४७ ॥
For Private and Personal Use Only